श्रेयस्साधनमेव धर्मः । न ह्यग्निहोत्रात् स्वर्गो भवतीत्यत्रानिहोत्रमिवात्मगुणं कस्यचिदपि श्रेयःसाधनतया श्रुतिरभिदधाति ।
ततो न तत्र धर्मत्वम् । एतेन आर्हतप्रभाकरादिमतेषु पुण्यपरमाण्वपूर्वादिष्यपि धर्मशब्दवाच्यता निरस्ता वेदितव्या ।
तदुक्तमाचार्यैः-
"पुङ्गलेषु च पुण्येषु नृगुणे पूर्वजन्मनि ।
प्रयोगो धर्मशब्दस्य न दृष्टो न च साधनम् ॥
पुरुषार्थस्य ते ज्ञातुं शक्यन्ते चोदनादिभिः । ”
इति । किञ्च, अत्यन्तापरिदृष्टचरं कार्याद्यपरनामधेयमपूर्वमभिदधति लिङगादय इत्यपि प्राभाकराणां दुराग्रहमात्रं, संज्ञासंज्ञिसम्बन्धावधारणं विना कुत्रापि शब्दप्रवृत्त्यदर्शनाद्, लिङादिभ्य एवावगमे परस्पराश्रयप्रसङ्गत्व | तस्मा (दिजा ? लिङा) दीनामपूर्वाभिधायकत्वानुपपत्तेच्च नापूर्वे धर्मशब्दवाच्यतोपपत्तिः । को तर्हि धर्माधर्मी, यत्र लोके धर्माधर्मशब्दी प्रवृत्तौ । श्रूय ताम् । यागादिषु लौकिकानां धर्मशब्दप्रयोगः, यागाद्यनुष्ठातरि धार्मिकत्वसमाख्यानात् । अधर्मशब्दप्रयोगस्तु हिंसासुरापानादौ । यदाहुः---
|
"अन्यत् साध्यमदृष्टैव यागादीननुतिष्ठताम् । |
इति । न केवलं लोके, वेदेऽपि “यज्ञेन यज्ञमयजन्त देवाः, तानि धर्माणि प्रथमान्यासन्” इति । अत्र हि यज्ञशब्दवाच्य-