इत्यादिषु श्वेतत्वादिगुणविशिष्टस्यैव द्रव्यस्य भूतिसाघनत्वश्वणाद् गुणगतोऽपि कोऽप्यतिशयः कल्पनीयः । स एवं गुणगता शक्तिरित्युच्यते । एवं सर्वत्र द्रष्टव्यम् । अत्र शक्तिरेव नास्तीति तार्किकाणां मतम् । अग्न्यादीनां दाहकत्वादिशक्ति
च स्वभावभेदेन समर्थयन्ति । तद्युक्तम् | स्वभावस्य यावद्रव्यभावित्वात् । * दाहकत्वादेश्व मणिमन्त्रादिनिराकरणेन । न च
प्रतिबन्धकाभावादेव दाहक इति वाच्यम् । अभावस्य सर्वत्राप्यकारकत्वात् । न च नित्यकर्मणामकरणात् प्रत्यवायदर्शनादकारकत्वमसिद्धमिति वाच्यम् । तत्रापि नित्यकर्मभि (लकर्मभा) वितानामज्ञातोपरिपातानामवर्जनीयानामेनसामेव प्रत्यवायहेतुत्वाभ्यु -
पगमात् । यथाहुः---
|
“स्वकाले यदकुर्वे (श्च) करोत्यन्यदचेतनः । |
इति । कथं तर्हि विशेषज्ञानाभावस्य संशयजनकत्वमिति चेत्, तत्राभावस्य ज्ञापकत्वात् । ज्ञापकत्वकारकत्वयोश्च विशेषादिति शक्तिरवश्याश्रयणीया । प्राभाकराः पुनरेनामनुमानगम्यां सङ्गिरन्ते । तत्तु प्रत्यक्षतो दृष्टसम्बन्धस्यैव लिङ्गस्यानुमापकत्वमिति समर्थयद्भिरस्माभिरेवानुमान परीक्षायां निरस्तम्। ननु कथमर्थापत्त्या शक्तिग्रहणम् । उच्यते ।
|
यादृशादग्निसंयोगात् सर्वदा दाहदर्शनम् । |
दाहकत्वादेर्मणिमन्त्रादिना निराकरणादिति खण्डवाक्यार्थः ।