वेगो भावना स्थितावस्थापक श्चेति त्रिविधः । तत्र वेगः पृथिव्यादिपञ्चद्रव्यवर्तिविशेषगुणः क्रियाहेतुश्च । भावनात्मकस्तु संस्कार आत्ममात्रवर्तिविशेषगुणः । पूर्वानुभवोऽस्य कारणम् । स्मृतिस्तु कार्यम् । स्थितस्थापकस्तु संस्कारः स्पर्शवत्सु द्रव्येषु वर्तमानो विशेषगुणः । स यथा
|
वेणुरन्ध्रप्रयुक्तं वा बर्द्ध वा बहुस्तरम् । |
इति । वैदिकस्तु संस्कारस्तक्षणोत्प (व)नप्रोक्षणावहन ( सा ? ना )दिभेदभिनः । स च द्विती(य? या ) श्रुत्यवसेयः । यथा यूपं तक्षति, त ( ण्डु) लान् (उत्पवते, व्रीहीन्) प्रोक्षति, व्रीहीनवहन्तीत्यादि । तत्र हि द्वितीया श्रुत्या तक्षणादिभिर्यूपादीन संस्कुर्यादित्यर्थः सिध्यति । स च भूतभाव्युपयोगिद्रव्यमात्रवर्तिविशेषगुणः । यथाहुः -
"भूतभाव्युपयोगं हि द्रव्यं संस्कारमर्हति ।”
इति । ध्वनिर्वायुगुणः शब्दाभिव्यञ्जकः । स च प्रागेवोक्तः । प्राकट्यं व्यवस्थापकः सर्वद्रव्यवर्तिसामान्यगुणः । स च संयुक्ततादात्म्यसम्बन्धेन प्रत्यक्षगम्यः । तच्च प्राकट्यं द्रव्याश्रितमपि तेन तादात्म्यसम्बन्धाज्जातिगुणकर्माण्यपि परम्परया समाश्रयत इति न तेषामविषयत्वप्रसङ्गः। 'प्राकट्याश्रयो विषय' इति विषयलक्षणमाहुराचार्याः । ननु किमिदं प्राकट्यं नाम । श्रूयताम् । सन्ति तावल्लौकिक परीक्षकाणां 'घट: प्रकाशते', 'घटो भाति', 'प्र-