अप्रत्यक्षं ज्ञानत्वात् सम्प्रतिपन्नज्ञानवत् । ननु ज्ञानस्य प्राकट्यावगम्यत्वेऽपि ज्ञातस्यैव प्राकट्यस्य ज्ञानगमकत्वम् । ततश्च प्राकट्यगतेन ज्ञानान्तरेण भवितव्यम् । तदपि ज्ञानं प्राकट्यान्तरावसेयमित्यनवस्थाप्रसङ्ग इति चेद्, मैवम् । मूलक्षयाभावेनास्या अनवस्थाया अदूषणत्वात् । तथा प्राहुः
"मूलक्षयकरीं प्राहुरनवस्थां हि दूषणीम् ।"
इति । कथं न मूलक्षयाभावः । उत्पन्नस्य ज्ञानस्यावश्य वेदनीयत्वाभावादिति ब्रूमः । न चाविज्ञायमानस्य विषयप्रकाशकत्वानुपपत्तिरिति वाच्यम् । चक्षुरादीनामप्यप्रकाशकत्व प्रसङ्गात् । पश्चादर्थप्रतिपत्तिगम्यत्वस्य चोभयत्रापि तुल्यत्वात् । विज्ञानं घटाद्याकारमिति बौद्धाः कथयन्ति । तदुपरिष्टान्निराकरिष्यामः । बुद्धिरयथार्थस्मरणानुवादयथार्थरूपेण चतुर्विधेति प्रमाणपरिच्छेदे समर्थितम् । सुखं पुनरैहिकसुखं स्वर्गसुखं मोक्षसुखं चेति त्रिविधम् । तत्र मोक्षसुखं प्रागेवाभिहितम् । ऐहिकसुखं तु स्रक्चन्दनवनितादिजन्यं दुःखमिश्रं च । स्वर्गसुखं पुनर्देशान्तरप्राप्यं दुःखरहितं च । उभयत्रापि धर्म एव कारणम् । दुःखं पुनरैहिकमामुष्मिकं च द्विविधम् । तत्रैहिकं रोगादिजन्यम् । आमुष्मिकं तु रौरवमहारौरवादिरूपम् । तत्रोभयत्राप्यधर्मः कारणम् । इच्छा ममेदं स्यादि॒त्येवमादिरूपा । द्वेषस्तु शत्रुविषयो भावविशेषः । प्रयत्नस्तु शरीरादौ भेदनिबन्धनः ।
|
एवमेते समुद्दिष्टाः संक्षेपादात्मनो गुणाः ॥ ३६३ ॥ |