सामग्री पर जाएँ

पृष्ठम्:मानमेयोदयः.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रमाणपरिच्छेदे प्रत्यक्षपरीक्षा ।


विषयत्वाभावे तत्र प्रवृत्तिर्न सिध्येत्, तथेदमेव रजतमिति सामानाधिकरण्यं तयोरभेदप्रतीति विना न सिध्येदित्यादि[]दिशा निराकरणीयम् । तस्मादन्यथाग्रहणरूपभ्रमादिज्ञानसद्भावात् तन्निरासार्थं तत्त्वपदम् । तदेवमज्ञाततत्त्वावगमरूपायाः प्रमायाः करणत्वेनेन्द्रियसन्निकर्षादीनां प्रमाणत्वं सिद्धम् । इह च प्रमाशब्देन लक्षणया तत्कार्यभूतस्य प्राकट्यस्यापि प्रतिपादनात् प्राकट्यरूपप्रमाकरणत्वेन ज्ञानस्यापि प्रमाणत्वमाहुः []। एतावता च वयं फलप्रमाणवादिन इति गीयामहे । तार्किकास्तु 'प्रमाकरणं प्रमाणम् | यथार्थानुभवः प्रमा। अनुभवश्व स्मृतिव्यतिरिक्तं ज्ञानभि'ति लक्षयन्ति । तद् अनुवादस्याप्रामाण्यसाधनात् तद्व्यावर्तकस्य च पदस्यात्राभावादतिव्याप्तम् । 'अनुभूतिः प्रमाणम् । स्मृतिव्यतिरिक्ता च संविदनुभूतिरिति प्राभाकराः । तदपि भ्रमादीनां साधनात् तेषामपि स्मृतिव्यतिरिक्तत्वात् तेष्वतिव्याप्तम् । किञ्च सर्वज्ञानेष्वप्यात्मा ज्ञानस्वरूपं विषय इति त्रितयमपि प्रकाशते । सर्वत्र चात्मस्वात्मांशयोः प्रमाणत्वं प्रत्यक्षत्वमप्यस्तीति तेषां मतम् । ततश्च स्मृतिव्यतिरिक्तज्ञानस्यैव प्रमाणत्वे स्मृतेरात्मस्वात्मांशयोरप्रामाण्यं स्यादित्यव्याप्तिरप्यस्तीति । 'अविसंवादि विज्ञानं प्रमाणम्[] । अविसंवादित्वं चार्थक्रियाकारित्वा[]मिति बौद्धाः । तत्र भूतभविष्यद्विषयस्यानुमानस्या-


  1. 'दियुक्तिर्द्रष्टव्या । त' ख. पाउ:.
  2. 'हुः । ता' ख. पाठः
  3. 'मिति बौद्धाः । अ' ख. पाठ:.
  4. 'त्वाभा' ख. पाठ: