सामग्री पर जाएँ

पृष्ठम्:मानमेयोदयः.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९६
मानमेयोदये


यत्वाद्, व्यक्त्यन्तरे जातिद्वयोपलम्भप्रसङ्गाच्च । तदुक्तं----

“न याति न च तत्रासीदस्ति पश्चान्न चांशवत् ।
जहाति पूर्व नाधारमहो व्यसनसन्ततिः ॥ "

इति । तत्र वदामः । तत्र यत् तावत् पृष्टं सामान्यं सर्वगतं व्यक्तिगतं वेति, तत्र पक्षद्वयमपि वयं कक्षीकुर्मः । सर्वगतत्वे व्यक्तिगतस्यापृथकूसाध्यत्वात् । न च सर्वगतत्वे सर्वत्रोपलब्धिप्रसङ्गः | व्यक्तेर्व्यञ्जकत्वाङ्गीकरणात् । (न) ह्यभिव्यञ्जकेन विनाभिव्यङ्ग्यस्योपलन्नः क्वचिदपि संभवति । न च व्यक्तिगतत्वे तत्कालोत्पन्नाया व्यक्तेर्जात्यन्वयवियोगयो ( रु ? रनु) - पपत्तिः। ‘अन्यत्रावस्थितस्यान्येनान्वयो गतिपूर्वक' इत्यादिनियमानां पृथक्सिद्धवस्तुविषयत्वाद् न तादात्म्यसम्बन्धसम्बद्धयोर्जातिजातिमतोरपि शक्यमापादयितुम् | येनकेनचित् साधर्म्येणान्यधर्मस्यान्यारोपे सति विश्वस्य सङ्करप्रसङ्गादिति न पूर्वोक्तदोषानुषङ्गः । शाबलेयादिष्वनुस्यूतो महिषादिभ्यो (व्यावृत्तो ) गौरित्येकाकारावभासः प्रत्यक्षप्रमाणनिष्पन्नः कथं न सामान्यमनिच्छतोऽप्यङ्गीकारयेत् । न चायमगोनिवृत्तिमात्रविषयः प्रत्ययः । विधिमुखेन जायमानस्य प्रत्ययस्य निषेधमुखत्वाङ्गीकरणानुपपत्तेः । अगोनिवृत्तिशब्दस्यापि निषेधद्वयविशिष्टत्वाद् गोत्वमेवार्थ इति पुनरपि शब्दान्तरेण गोत्वमेवापन्नमायुष्मताम् । तदुक्तमाचार्यैः----


 + शक्यमिति सामान्ये नपुंसकमव्ययं वा । नियमा इति विपरिणामेना- न्बयो बोद्धव्यः ।