सामग्री पर जाएँ

पृष्ठम्:मानमेयोदयः.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मानमेयोदये


नवयवद्रव्यत्वाद् वा आत्मवदिति विभुत्वसिद्धिः । न च द्रव्यत्वमसिद्धम् | तस्य साधितत्वात् । एकस्यैव गकारस्य कालदेशा(दीनां ? दिना) तन्त्रीकृतस्य युगपदुपलभ्यमानत्वाञ्च महत्त्वसिद्धिः । नैयायिकाः पुनरेनमेव युगपदुपलम्भं व्यक्तिभेदेन समर्थयन्ति । व्यक्तीनां च विनाशित्वमभ्युपगच्छन्ति । ' स एवायं गकार' इति प्रत्यभिज्ञानस्य तु जातिगोचरत्वमपि कल्पयन्ति । तच्चायुक्तम् । यस्य हि प्रत्यभिज्ञानस्य बलवत्प्रमाणविरोधेन (न? ) व्यक्तिगतमेकत्वं गोचरीकर्तुमशक्यं, तस्यैव जात्यात्मनैकगोचरत्वकल्पनं युक्तम् । अन्यथा सर्वत्रापि जात्यात्मना प्रत्यभिज्ञानकल्पने 'सोऽयं देवदत्त' इत्यादावपि तथात्वप्रसङ्गात् । न चात्र बाधकप्रमाणं किञ्चिदुपलभ्यते । न ( नु) 'उत्पन्नः शब्दः’ ‘विनष्टः शब्द' इत्यादिप्रत्ययोऽत्र बाधक इ (त्यादि ? ति) चेद्, न, नित्यविभुत्वेन सम्मतानामपि गगनादीनां खननपूरणानन्तरभवस्य जननविनाशप्रत्ययस्येवाभिव्यञ्जकसान्निध्यसदसद्भावनिबन्धन-- त्वात् तस्यापि । 'नित्यः (श )ब्दः सत्त्वे सत्यकारणत्वाद् व्योमवत्' । नच ता (ल्वा ) दिव्यापाराणां कारणत्वदर्शनादकारणत्वमसिद्धमिति वाच्यम् । ता (ला ? ल्वा) दिव्यापाराणां खननादेर्मूलोदकाभिव्यञ्जकत्ववदभिव्यञ्जकत्वस्यैवोपपत्तेः । 'ताल्वादिव्यापारः शब्दकारणं न भवति व्यापारत्वात् सम्प्रतिपन्नव्यापारवदि 'त्यकारणत्वसिद्धेश्च । ननु 'ताल्वादिव्यापारः शब्दकारणं भवति शब्दस्य तदनन्तरभावित्वाद् यो यदनन्तरभावी स तत्कारणकः यथा कुलालव्यापारानन्तरभावी घटस्तत्कारणकः' (इति) कृतिकारणत्वमपि साध्यमिति चेद्, न, मूलोद-