पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृष्णानिदानम् १६ । तत्संख्या-तिस्रः स्मृतास्ताः क्षवजा चतुर्थी क्षयात्तथा ग्रामसमुद्भवा च । भक्तोद्भवा सप्तमिकेति तासां निबोध लिङ्गान्यनुपूर्वशस्तु ॥२॥ छदिरोगोपद्रवभूतायास्तृष्णायाश्चरनन्तरं प्रसङ्गस्तत आह-भयेत्यादि । एभिः कारणः पित्तविवर्धनः कट्वम्लोष्णादिभिः, चितं--सञ्चितं, तालुप्रपत्र क्लोमादि प्राप्त सत् , अपां वाहिषु जलवहेषु स्रोतस्सु, दूषितेषु-भ्रष्टेषु, (औष्ण्यादामाद् भयात्पाना-दतिशुष्कान्नसेवनात् । अम्बुवाहीनि दूष्यन्ति तृष्णायाश्चातिपीडनादिति)। तृट् =पिपासा, जन्तोः नरस्य, सम्भवति-उत्पद्यते ॥१॥ वातजा-क्षामास्यता मारुतसम्भवायां तोदस्तथा शलशिरःसु चापि । स्रोतोनिरोधो विरसं च वक्त्रं शीताभिरनिश्च विवृद्धिमेति॥३॥ वातजामाह-क्षामास्यतेति । मारुतसम्भवायां वातजायां तृष्णायाम् , क्षामास्यता दीनाननत्वम् , तोदो - व्यथा, स्रोतसामुदकवहानामबरोधः, वक्र-मुखं च, विरसं-गतस्वादम् ॥३॥ पित्तजा-मूर्छऽन्नविद्वेषविलापदाहा रक्तक्षणत्वं प्रततश्च शोषः । शीताभिनन्दा मुखतिक्तता च पित्तात्मिकायां परिदूयनं च॥४॥ पित्तजामाह-मूच्छेत्यादिना। पित्तात्मिकायां-पित्तजनितायां तृष्णाया- म् , मूर्छाऽऽदयो जायन्ते, प्रततः प्रबुद्धः, शोषस्तृष्णा, परिदयनम्-सन्ताप॥४॥ कफजा-वाष्पावरोधास्कफसवृतेऽसौ तृष्णा बलासेन भवेत्तथा तु । निद्रा गुरुत्वं मधुरास्यता च तृष्णार्दितः शुष्यति चातिमात्रम् श्लेष्मजामाह-वाष्पेत्यादि । वाष्पाणां- मुखनेत्रनासा जलानाम्, अ- वरोधात् निग्रहात्, कफेन स्वकारणकुपितेन, भग्नौ संवृते सति-मन्दीभूते सति, तृष्णा भवेत् , बलासेन तु-श्लेष्मणाऽपि तथा भवेत् । मधुरास्यता मुखमाधुर्य, शुष्यति = कृशत्वं गच्छति ॥५॥ क्षतजा-क्षतस्य रुकशोणितनिर्गमाभ्यां- तृष्णा चतुर्थी क्षतजा मता तु॥६॥ क्षयजा-रसक्षयाचा क्षयसम्भवा सा तयाभिभूतश्च निशादिनेषु ॥ पेपीयतेऽमास सुखं न यातितां सन्निपातादिति के चिदा। रसायोक्तानि च लक्षणानि तस्यामशेषेण भिषाव्यवस्येवाणा क्षयजामाह-सक्षयादिस्यादि । रसस्व क्षयाज्जाता या सा क्षयसम्भवा, तया-तृष्णया, निशादिनेषु-रात्रिन्दिवम् , अम्भो-जल, पेपीयते-पुन:-