पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हिवाचासनिदानम् १२॥ स्रोतांसि च यस्य स तथा । क्रुद्धगन्धवहार्दितः = प्रकुपितवातपीडितः, वि. भ्रान्ताक्षः- चलिसनेत्रः, शुक्लास्यो धवलमुखः, ताम्यतो ग्लायतः, मुह्यतश्च, असून् -प्राणान् , हन्ति ॥ २३-२५ ॥.. छिन्नश्वासः-यस्तु श्वसिति विच्छिन्नं सर्वप्राणेन पीडितः । न वा श्वसिति दुःखारों मर्मच्छेदरुगर्दितः ॥ २६ ॥ आनाहस्वेदमूछोऽऽ” दह्यमानेन वस्तिना। विप्लुताक्षः परिक्षीणः श्वसन रक्तैकलोचनः ॥ २७॥ विचेताः परिशुष्कास्यो विवर्णः प्रलपनरः । छिन्नश्वासेन विच्छिन्नः स शीघ्र विजहास्यसून् ॥२८॥ छिन्नश्वासलक्षणमाह-यस्त्वित्यादि । सविच्छेदम् - अवकाशं कृत्वा, सर्वप्राणेन = यावलम् , मर्मच्छेदरुगदितः हृदयविदारकपीडोपेतः, वि- प्लुताक्षः सास्रनेत्रः, रक्तकलोचनत्वं तु व्याधिमाहात्म्यान्न तु दोषसम्पर्कात् , दोषात्तु द्वयोरपि स्यादिति भावः। विचेता:- विभ्रान्तचित्तः, परिशुष्कास्यः= शुष्कमुखमण्डलः, शेषस्तु सुबोधः ॥ २६-२८ ॥ तमकश्वासः- स्रोतांसि प्रतिपद्यते । ग्रीवां शिरश्च संगृह्य श्लेष्माणं समुदीर्य च ॥ २९ ॥ करोति पीनसं तेन रुद्धो घुर्धरकं तथा । अतीव तीव्रवेगं च श्वासं प्राणप्रपीडकम् ॥३०॥ प्रताम्यति स वेगेन तृष्यते सन्निरुध्यते । प्रमोहं कासमानश्च स गच्छति मुहुर्मुहुः ॥ ३१ ॥ श्लेष्मण्यमुच्यमाने तु भृशं भवति दुःखितः। तस्यैव च विमोक्षान्ते मुहूर्त रूमते सुखम् ॥ ३२ ॥ तथाऽस्योदूध्वंसते कण्ठः कृच्छाच्छक्नोति भाषितुम् । न चापि लभते निद्रां शयानः श्वासपीडितः ॥ ३३ ॥ पावें तस्यावगृह्णाति शयानस्य समीरणः । आसीनो लभते सौख्यमुष्णं चैवाभिनन्दति ॥ ३४ ॥ उच्छ्तिाक्षो ललाटेन स्विचता भृशमातिमान् । विशुष्कास्यो मुहुः श्वासो मुहुश्शेवावधम्यते ॥३६॥ समकश्वासलघणमाह-प्रतिसोममित्यादि । यदा वायुग्रीवा शिरश्च संगृह्य श्लेष्मापं समुदीर्य च प्रतिकोम (यथा स्यात्तथा) स्रोतांसि प्रतिपयते प्रतिलोमं यदा वायुः