पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- कफवाताधिकश्चैव संसृष्टश्छिन्नसंज्ञकः । श्वासो मारुतसंसृष्टो महानूयस्ततो मतः) ॥१॥ तत्पूर्वरूप-प्रायूपं तस्य हृत्पीडा शूलमाध्मानमेव च । आनाहो वक्त्रवरस्य शङ्कनिस्तोद एव च ॥१८॥ तत्सम्प्राप्तिः-यदास्रोतांसि संरुध्य मारुतः कफपूर्वकः विष्वग् ब्रजति संरुद्धस्तदा श्वासान् करोति सः ॥१९॥ सम्प्राप्तिमाह-यदेत्यादि। यदा कफपूर्वकः - श्लेष्मपूर्वक:-कफः पूर्व प्रधानं यस्य स तथेति विग्रहः। मारुतः = पवनः, स्रोतांसि-प्राणादिवहानि, संरुध्य, विष्वक् = सर्वतः, यजति गच्छति, तदा श्वासान् करोति ॥ १९ ॥ महाश्वासः-उधूयमानवातो यः शब्दवद् दुःखितो नरः । उच्चैः श्वसिति संरुद्धो मत्तर्षभ इवानिशम् ॥२०॥ प्रनष्टज्ञानविज्ञानस्तथा विभ्रान्तलोचनः । विवृताक्ष्याननो बद्धमूत्रवर्चा विशीर्णवाक् ॥ २१॥ दीनः प्रश्चसितं चास्य दूराद्विज्ञायते भृशम् । महाश्वासोपसृष्टस्तु क्षिप्रमेव विपद्यते ॥ २२ ॥ महाश्वासलक्षणमाह-उद्धयमानेति । उत्- कवं, धूयमानो-नीय. मानो वातो यस्य स तथा। मत्तर्षभ इव प्रमत्तवलीवई इव, अनिशं= संततं, प्रनष्टज्ञानविज्ञान:- शानञ्च विज्ञानञ्च ज्ञानविज्ञाने प्रनष्टे ज्ञानविज्ञाने यस्य स तथा। ज्ञान = शास्त्र, विज्ञानं = तदर्थाश्बोधः, विशीर्णवाक्- भाषणाक्षमः, दीनः = क्लान्तचित्तः, महाश्वासोपसृष्टः महाश्वासरोगाक्रान्तः, क्षिप्रं- शीघ्र', विपद्यते म्रियते ॥२०-२२ ॥ ऊर्वश्वास:-ऊर्ध्वं सिति यो दीर्घ न च प्रत्याहरत्यधः ॥ श्लेष्मावृतमुखस्रोतः क्रुद्धगन्धवहार्दितः ॥ २३ ॥ ऊर्ध्वदृष्टिविपश्यस्तु विभ्रान्ताक्ष इतस्ततः । प्रमुझन्वेदनाऽऽश्च शुक्लास्योरतिपीडितः ॥ २४ ॥ ऊर्ध्वश्वासे निःश्वासागमने हेतु:- उर्वश्वासे प्रकुपिते पधःश्वासो निरुध्यते । मुह्यतस्ताम्यतो वासस्तस्यैव हन्स्यसून ॥ २५ ॥ ऊर्ध्वश्वासलक्षणमाह-अध्वंसि । न च प्रत्याहरत्यधः श्वास नीचर्मा. गेण न दीर्घकालं करोति । उलेमावृतमुखखोता:-इलेष्मणा, भावृतं मुर्ख -