पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ सुधोपेते.माधवनिदाने- अभ्याइतस्य पुंसः, वक्षसि-हृदये, विक्षते सति बलवान् व्याधिः, समुदीर्य- ते-उत्पद्यते, खीषु, अतिप्रसक्तस्य- अनुरक्तस्य, स्क्षाल्पप्रमिताशिनः- रूक्षादिपदार्थभोजिनः, उरः वक्षः, प्रपीडयो मिथते विरुज्यते विभज्यते च, श्र, वेपते-कम्पते, क्रमात कमतः,वीर्यादयो हीयन्ते ज्वरादयोऽपि भवन्ति । कासमानस्य, अभीक्ष्णं-निरन्तरम् , दुष्टश्यावादिलक्षणान्वित, सास- रक्तयुक्तः, कफः - श्लेष्मा, प्रवसते-निःसरति, शुक्रोजसोः क्षयात् स क्षती. अस्पर्थम् अतिशयेन, क्षीयते-क्षीणो भवति ॥ २४-३१ ॥ तत्पूर्वरूपम्--अव्यकं लक्षणं तस्य पूर्वरूपमिति स्मृतम् ॥ ३२ ॥ तस्य पूर्वरूपमाह-अध्यक्तति । तस्य-राजयक्ष्मणः, अविस्पष्ट लिङ्ग पूर्वरूप- मित्यर्थः॥ ३२॥ क्षतक्षीणयोरसाधारणलक्षणम् उरोरुक शोणितच्छदिः कासो वैशेषिकः क्षते । क्षीणे सरक्कमूत्रत्वं पार्श्वपृष्ठकटिग्रहः ॥ ३३ ॥ क्षतक्षीणयोविशिष्टलिङ्गमाह-क्षते, उरोहक-हृदयन्यथा, शोणितच्छवि:- रक्तवमनम्, वैशेषिक: विशिष्टः, कासश्च । क्षीणे-सरक्तमूत्रत्वंसूत्रस्य रक्त- वर्णता, पार्श्वयोः पृष्ठे कटयां च ग्रहः-पीडा ॥ ३३ ॥ तत्साध्यासाध्ये- अल्पलिङ्गस्य दीक्षाग्नेः साध्यो पलवतो नवः । परिसंवत्सरो याप्यः सर्वलिङ्गन्तु बर्जयेत् ॥ ३४ ॥ इति श्रीमाधवकरविरचिते माधवनिदाने दशर्म राजयक्ष्मो. रक्षित-निदान समाप्तम् ॥१०॥ तयोः साध्यासाध्यलक्षणमाह-अल्पेत्यादि। अल्पलिङ्गल्य स्वरूप लक्षणान्वितस्य, दीशाग्नेः-संदीप्तजठरानलस्य, बलवतःबलिष्ठस्य जनस्य, नवः स्वल्पकालोत्थः, साध्यचिकित्स्यः, परिसंवत्सरः- अनतिक्रान्त- वर्षः, याप्यः, सर्वलिङ्गं तु बर्जयेत्-प्रत्याख्यायात् ।। ३४ ॥ इति राजयक्ष्मक्षोर क्षतनिदानम् ॥१०॥ अथकादशं कास-निदानम् ॥११॥ कासहेतुः-धूमोपाधातावासस्तथैव व्यायामरक्षासनिषेवणाच। विमार्ममत्वावहि भोजनस्य वेगावरोधात क्षयोस्तव