पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, - ६२ सुधोपेते माधवनिदाने- मुष्कशोथस्य विरेकसाध्यत्वेन विरुद्धोपक्रमत्वात् शुक्लाक्षमित्यादिलक्षणान्वित, बहुमेहन्तं बहुमूत्रयन्तं, यक्ष्मा, हन्ति = मारयति ॥ १०-१४ ॥ साध्य. ज्वरानुबन्धरहित बलवन्तं क्रियासहम् । लक्षणम्-उपक्रमेदात्मवन्त दीप्ताग्निमकृशं नरम् ॥१५॥ साध्यलक्षणमाह-ज्वरेत्यादि । उपक्रमेत्= चिकित्सेत् , आत्मवन्तः जितेन्द्रियम् , अकृशम् = अदुर्बलगात्रम् ॥ १५ ॥ शोषे हेतु व्यवाय-शोक-वार्धक्य-व्यायामा-ध्व-प्रशोषितान् । भेदा: अणोरक्षतसंज्ञौ च शोषिणी लक्षणैः शृणु ॥ १६ ॥ मैथुनशोषी-व्यवायशोषी शुक्रस्य क्षयलिजैरुपद्रुतः । पाण्डुदेहो यथापूर्व क्षीयन्ते चाल्य धातवः ॥ १७ ॥ व्यवायशोषिणो लक्षणमाह-व्यवायेति । व्यवायो-मैथुनम् , शुक्रस्य- क्षयलिङ्ग:- शुक्रक्षयेऽशक्तिमैथुने मेढवृषणवेदनेत्यादिसुश्रुतोक्तैर्लक्षणैः, उप- द्रुतः पीडितः । यथापूर्व शुक्रक्षये मज्जा, मज्जनिक्षीणेऽस्थि क्षयमेतीत्यादि ॥१५॥ शोकशोषी-प्रध्यानशील स्वस्ताङ्गः शोकशोष्यपि तादृशः॥१८॥ वार्द्धक्यशोषी-जराशोषी कृशो मान्दवीर्यबुद्धिबलेन्द्रियः । कम्पनोऽरुचिमान भिन्नकांस्यपात्रहतस्वरः ॥ १९ ॥ छीवति श्लेष्मणा हीन गौरवारतिपीडितः। सम्प्रवृतास्थनासाक्षः शुष्करक्षमलच्छविः ॥ २० ॥ बार्थक्यशोषिणो लक्षणमाह-जरेत्यादि। मन्दानि वीर्यादीनि यस्य स मन्दवीर्यबुद्धिबलेन्द्रियः। मन्दशन्दः प्रत्येकमन्वेति । कम्पनः = वेपनयुक्तः । शुष्करूक्षे मलच्छवी यस्य स तथा शुष्करूक्षमलच्छविः, शुष्करूयोर्यथासं. ख्येनान्वयः ॥ १९-२०॥ अध्वशोषी-अध्वशोषी च सस्ताङ्गः संभृष्टपरुषच्छविः । प्रसुप्तगात्रावयवः शुष्करलोमगलाननः ॥ २१ ॥ अध्वशोषिणो लिङ्गमाह-अध्वेति । अध्वशोषी-मार्गशोषी, सम्वृष्ट- स्येव-भजितस्येव परुषा छविः - कान्तिर्यस्य स तथा, क्लोम-पिपासास्था- नम् , शुष्क क्लोमगलाननं यस्य स तथा ॥ २१ ॥ व्यायामशोषी-व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः । लिङ्गारक्षतकता संयुक्तबा विना ॥२९॥