पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

98 सुधोपेते माधवनिदाने- सम्प्राप्तिमाह-व्यायाममित्यादि । व्यायामादिनिषेवमाणस्य पुंसः, दो- षाः वातादयः, रक्तं प्रदूष्य त्वचं पाण्डुरता, नयन्ति-प्रापयन्ति। रक्तमि- त्युपलक्षणं त्वङ्मांसादीनाम् ॥ २ ॥ पूर्वरूप- त्वक्स्फोटनष्ठीवनगात्रसादमृदक्षणप्रेक्षणकूटशोथाः । विण्मूत्रपीतत्वमथाविपाको भविष्यतस्तस्य पुरःसराणि ॥३॥ पूर्वरूपमाह-त्वगित्यादि । त्वस्फोटनं चर्मविदरणम् , ष्टीवन (थु- कथुक्कीति लोके), प्रेक्षणकूटशोथ नेत्रगोलकसंरम्भः। अविपाक:-श्राहार- स्य, तस्य पाण्डुरोगस्य, भविष्यतः-भाविनः, पुरस्सराणि-पूर्वरूपाणि ॥३।। वातपाण्डुः-त्वमूत्रनयनादीनां रूक्षकृष्णारुणाभताः । वातपाण्ड्वामये तोदकम्पानाहभ्रमादयः ॥ ४॥ वातिकलक्षणमाह-त्वगित्यादि । वातपाण्ड्वामये-वातिकपाण्डुरोगे, त्वगादीनां रूक्षकृष्णारुणाभताः, तोदादयश्च वेदनाविशेषा भवन्ति । श्रादिना भेदशूलादीनामपि संग्रहः ।। ४ ।। पित्तपाण्डु:-पीतमूत्रशकृन्नेत्रो दाहतृष्णाज्वरान्वितः । भिन्नविट्कोऽतिपीताभः पित्तपाण्ड्वामयी नरः ॥५॥ पैत्तिकलक्षणमाह-पीतेत्यादि । पित्तपाण्ड्वामयी इतरदोषानाबद्ध- प्रबलपित्तजन्यपाण्डुरोगपीडितः । पीतमूत्रशकुन्नेत्रः पीतानि मूत्रादीनि यस्य सः, भिन्नविटकः भिन्न द्रवं विट्=पुरीषं यस्य स तथा। अतिपीताभः= पीतच्छविश्च भवति ॥५॥ कफपाण्डु:-कफप्रसेकश्वयथुतन्द्राऽऽलस्यातिगौरवैः । पाण्डुरोगी कफाच्छुक्लैस्त्वमूत्रनयनाननैः ॥ ६ ॥ असाध्यपाण्डु-ज्वरारोचकहल्लासर्दितृष्णालमान्वितः। रोगिलक्षणम्-पाण्डुरोगी त्रिभिदोषैस्त्याज्यः क्षीणो हतेन्द्रियः ॥ ७॥ श्लैष्मिकमाह-कफेत्यादि । कफाज्जातः पाण्डुरोगी शुक्लैस्त्वमूत्रनय- नाननैरुपलक्षितः, नयन नेत्रम् । आनन-मुखम् ,ज्वरादिभिरन्वितश्च भवति । त्रिभिदोषरन्वितो यदा जायते तदा, क्षीणः कृशः, हतेन्द्रिया-विगतकरणप्र. भावः, भवति, तदा, त्याज्या असाध्यः ॥ ६-७॥ मृज्जन्यपा- मृत्तिकाऽदनशीलस्य कुप्यत्यन्यतमो मलः । ण्डुसंप्राप्तिः कषाया मारत, पित्तमूषरा, मधुरा कफम् ॥ ८॥ .