पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाण्डुरोगादिनिदानम् ८॥ ५३ स्थानाश्च ते रक्तजाश्चेति तथोक्ताः, जन्तवः क्रिमयः, वृत्ततानाः- वृत्ता:- वर्तुलाः, ताम्राः- रक्तवर्णाः, अदर्शनाः- चतुरिन्द्रियागोचराः, सह सौरसमा. तृभ्यां वर्तन्त इति सहसौरसमातरः, केशादादयः षट् कुष्ठमेवकं प्रधान कर्म येषां ते तथोक्ताः, कुष्ठकारका इति यावत् ॥ ११-१२ ॥ पकाशयजा:-पक्वाशये पुरीषोत्था जायन्तेऽधोविसर्पिणः । प्रबृद्धाः स्युर्भवेयुश्च ते यदाऽऽमाशयोन्मुखाः॥ १३ ॥ तल्लक्षणं-तदाऽस्योद्गारनिःश्वासा विड्गन्धानुविधायिनः । पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः ॥१४॥ तन्नामानि-ते पञ्च नाम्ना क्रिमयः ककेरुकमकेरुकाः । सौसुरादाः सशूलाख्या लेलिहा जनयन्ति हि ॥१५॥ तत्कार्य-विड्भेदशूलविष्टम्भकार्यपारुष्यपाण्डुताः। रोमहर्षाग्निसदनं गुदकण्डूर्विमार्गगाः ॥१६॥ इति श्रीमाधवकरविरचिते माधवनिदाने सप्तम क्रिमिरोग- निदान समाप्तम् ॥७॥ पुरीषजानाह-पक्काशय इत्यादि । पुरीषोत्थाः- विड्जाः, क्रिमयः, धोविसर्पिणः = पायुबहिनिस्सरणशीलाः, अतिवृद्धाः सन्तः, आमाशयोन्मुखा- यदा जायन्ते तदोद्गारनिःश्वासाः, विडगन्धानुविधायिनः-पुरीषगन्धयुक्ताः, भवन्ति । ते ककेरुकादिपञ्चनामधेयानि पिभ्रति, विड्भेदादिगुदकण्ड्वन्तानु- पद्रवाञ् जनयन्ति च ॥१३-१६ ॥ इति सुधायां क्रिमिरोगनिदानम ॥ ७ ॥ . अथाष्टमं पाण्डुरोगकामलाकुम्भकामलाहलीमकनिदानम्॥८॥ संख्या-पाण्डुरोगाः स्मृताः पत्र, वातपित्तकफस्त्रयः । चतुर्थः सन्निपातेन, पञ्चमो भक्षणान्मृदः ॥१॥ पाण्डुरोगस्य पुरीषोत्यक्रिमिजन्यत्वसम्भवात्क्रिमेरनन्तरं पाण्डुरोगावसरः । पाण्डुरोगा इत्यादि । पाण्डुत्वेनोपलचिता रोगाः। ते पञ्चविधा वातादिभित्रयः, सन्निपातेन चतुर्थः, मृदो भक्षणात्पञ्चमः ॥१॥ पाण्डो तुः सम्प्राप्तिश्च-- व्यायाममम्लं लवणानि मयं मृदं दिवास्वप्नमतीव तीक्ष्णम् । निषेवमाणस्य प्रदूष्य रक्त दोषास्त्वचं पाण्डुरता मयन्ति ॥२॥