पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 सुधोपेते माधवनिदाने- जनशीलः, मधुराम्लनित्यः निरन्तरं मिष्टाम्लभक्षकः । विरुद्धमोजी-क्षीर- मत्स्यादिभुक् ॥ ४॥ क्रिमिविशेषे नि-माषपिष्टाम्ललवणगुडशाकः पुरीषजाः । दानविशेषः- मांसमत्स्यगुडक्षीरदधिशुक्तः कफोद्भवाः ।। विरुद्धाजीर्णशाकाचैः शोणितोत्था भवन्ति हि ॥५॥ कफादिजन्मनां निदानविशेषमाह-माषेत्यादिना ॥५॥ संजातक्रिमि-ज्वरो विवर्णता शुलं हृद्रोगः सदनं भ्रमः । रूपं- भक्तद्वेषोऽतिसारश्च संजातक्रिमिलक्षणम् ॥ ६ ॥ आभ्यन्तरक्रिमिलक्षणमाह-ज्वर इत्यादि । विवर्णता-शरीरस्य, सदः नग्लानिः, भक्तद्वेषः भोजनानभिलाषः ॥६॥ आमाशयजा:-कफादामाशये जाता बृद्धाः सर्पन्ति सर्वतः । पृथुबध्ननिभाः के चित्के चिद्रण्डूपदोपमाः॥ ७ ॥ रूढधान्याकुराकारास्तनुदीर्घास्तथाऽणवः ।। श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते ॥ ८॥ श्लेष्मजानाह-कफादित्यादि। कफाद् आमाशये जाताः क्रिमयो वृद्धाः सन्तः, सर्वतः उपर्यधोदेशेषु, सर्पन्ति-विचरन्ति। एषां मध्ये के चित्, पृथुन- भनिभाः स्थूलचर्मलतिकाऽऽकाराः, के चिद् गण्डूपदोपमाः-कन्चुलिकास- दृशाः, तनुदीर्घास्तथाऽणवः - तनवः परिणाहेन दीर्घा आयामेन, अणवः परिणाहविस्ताराभ्याम् ॥ ७-८॥ तन्नामानि- अन्त्रादा उदरापेष्टा हृदयादा महागुदाः । चुरवो दर्भकुसुमाः सुगन्धास्ते च कुर्वते ॥९॥ तत्कार्यम्- हल्लासमास्यमवणमविपाकमरोचकम् । मूर्छाच्छर्दिज्वरानाहकार्यक्षवथुपीनसान् ॥१०॥ तेषां नामानि प्रकटयति-अन्त्रादा इत्यादिना । ते-क्रिमयः, हृल्लासादि- कान् पीनसान्तानुपद्रवान् करोति ॥ ९-१०॥ रक्तवाहिसिरास्थानरक्तजा जन्तवोऽणवः । अपादा वृत्तताम्राश्च सौक्षम्यात्के चिददर्शनाः ॥११॥ केशादा रोमविध्वंसा रोमद्वीपा उदुम्बराः। षट् ते कुण्ठैककर्माणः सहसौरसमातरः ॥१३॥ रक्तजानाह-रक्तेत्यादि । रक्तवाहिसिरास्थानराजा-रक्तवाहिसिरा- रक्ताः-