पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कृमिरोगनिदानम् । ५१ जीर्णाहारलक्षणमाह-उद्गारेत्यादि । उदारशुद्धिः अम्लिकादिशून्यता, उत्साह कार्यस्फूत्तिः, वेगोत्सर्गो-मलमूत्रादीनां सम्यक् प्रवृत्तिः, लघुता- शरीरस्येति ॥ २९ ॥ सामान्याजीर्ण-ग्लानिगौरव विष्टम्भभ्रममारुतमूढताः । लक्षणम् - विबन्धो वा प्रवृत्तिर्वा सामान्याजीर्णलक्षणम् ॥३०॥ इति श्रीमाधवकरविरचिते माधवनिदाने पष्ठमनिमान्द्या-जीर्ण-वि- पूचिका-ऽलसक-विलम्बिका-निदानं समासम् ॥६॥ इत्यग्निमान्यादिनिदानम् ॥६॥ अथ सप्तमं क्रिमिरोग-निदानम् ॥ ७॥ क्रिमिसंख्या-क्रिमयश्च द्विधा प्रोक्ता बाह्याभ्यन्तरभेदतः। बहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्विधाः ॥ नामतो विशतिविधा, ॥१॥ प्रायः क्रिमीणामप्यजीर्णजन्यवादजीर्णानन्तरं क्रिमिनिदानावसरः। क्रिमयो द्विधा प्रोक्ता बाह्याभ्यन्तरभेदात्। बहिर्मलकफासग्विड्जन्मभेदात् ते पुनश्चतुर्विधाः-बहिर्मल: स्वेदादयः, कफ:-श्लेष्मा,असृग-रक्तम् , विट पुरीषम् , एषु जन्म तद्भेदात् । नामतोऽपि विंशतिविधाः ॥१॥ बाघकृमिस्व. बाह्यास्तत्र मलोद्भवाः। रूपम्- तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः ॥२॥ बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः। द्विधा ते कोठपिडिकाकण्डूगण्डान्प्रकुर्वते ॥३॥ बाह्यानाह-तिलप्रमाणसंस्थानवाःतिलानामिव प्रमाण संस्थान- माकारो वर्णश्च श्वेतादिर्येषां ते तथा। केशाम्बराश्रयाः केश बालः, अम्ब- रम् वस्त्रम्, बहुपादा-नानाचरणाः, सूक्ष्मा:-प्रणवः, ते पुनः, यूकालिक्षा- भेदेन द्विधा भवन्ति । तत्र सूक्ष्मा यूकाः ('टील, लीख' चीलर इति लोके ) ते कोठादीन् प्रकुर्वते ॥ २-३॥ भाभ्यन्तरक्रि-अजीर्णभोजी मधुराम्लनित्यो द्वषप्रियः पिष्टगुडोपभोक्ता। मीणां हेतुः-व्यायामजी चदिवाशयानो विरुदभुक् संलभते क्रिमीस्तु॥४॥ तेषां निदानमाह-अजीणेत्यादि । अजीर्णभोजी-मजीर्णदशायां भो.