पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- बिम्बीखर्जूरकर्कन्धूकासीफलसन्निभाः ॥१३॥ के चित्कदम्बपुष्पाभाः के चित्सिद्धार्थकोपमाः। शिरःपावोसकट्यूरुवक्षणाधिकव्यथाः ॥ १४ ॥ क्षवथूगारविष्टम्भहृद्ग्रहारोचकप्रदाः । कासश्वासाग्निवैषम्यकर्णनादभ्रमावहाः ॥१५॥ तैरातॊ ग्रथितं स्तोकं सशब्द सप्रवाहिकम् । रुक्फेनपिच्छानुगतं विबद्धमुपवेश्यते ॥ १६ ॥ अर्शसां निदानमुक्त्वा वातादिभेदेन लक्षणानि कथयति, तत्र वाताशीलक्ष- रणमाह-गुदाकुरा इत्यादि । बहुरनिलो यत्र ते तथोक्ता वातप्रधानाः । गुदे मांसप्र- रोहाः, गुदाकुराः। शुष्काः स्रावहीनाः, चिमचिमान्विताः-वेदनाविशेषपीडि- ताः, स्तब्धाः कठिनस्पर्शवत्वात, परुषा:-कर्कशाः, खराः सूक्ष्मानेककण्टका- कीर्णाः, मिथोविसदृशाः परस्परविभिन्नाकृतयः, बिम्ब्यादिफलसन्निभा: बिम्बी (त्रिकोल' इति लोके ख्यातम्) रक्तातिशयादिसाधर्म्यमादाय सादृश्यम्। के चित् सिद्धार्थकोपमा:-सिद्धार्थकः 'सरसो' इति लोके प्रसिद्धः सूक्ष्मफल- विशेषस्तत्सदृशाः सूक्ष्मपिडकारूपाः । तैः = अर्शोभिः, आत:=पीडितः, ग्रथि- नं-क्लिष्टम्, स्तोकम् = अल्पम् , रुक्=पीडा, पिच्छा=चिक्कणो जलोदगत- तैलाकृतिवभागः, उपवेश्यते = पुरीषं त्याज्यते ॥ १३-१६ ।। तदुपद्रवाः- कृष्णत्वङ्नखविण्मूत्रनेत्रवक्त्रश्च जायते । गुल्मप्लीहोदराष्ठीलासम्भवस्तत एव च ॥१७॥ पित्तगुदाकुराः-पित्तोत्तरा नीलमुखा रक्तपीतासितप्रभाः। तन्वस्रनाविणो विनास्तनवो मृदवः श्लथाः ॥१८॥ शुकजिबायकृत्खण्डजलौकोवक्त्रसन्निभाः। दाहपाकज्वरस्वेदतृणमूर्छाऽरुचिमोहदाः ॥१९॥ सोष्माणो द्वनीलोष्णपीतरक्तामवर्चसः । यवमध्या हरित्पीतहारिद्रत्वङ्नखादयः ॥ २० ॥ उपद्रवमाह-वनखविण्मूत्रादीनां कृष्णता गुल्मादिसम्भवश्च जायते, अष्टीला-वातव्याधिविशेषः ।। १७-२०॥ कफगुदाकुराः-श्लेष्मोल्वणा महामूला घना मन्दजः सिताः। उस्सनोपचितस्निग्धस्तम्धवृत्तगुरुस्थिराः ॥ २१ ॥