पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- असाध्यत्वमाह-लिङ्गैरित्यादिना । लिङ्गः-लक्षणः, अतीसारगदो न सि- ब्येत्तरेव ग्रहणीविकारो न सिद्धयेत् । यानि अतिसारस्यासाध्यलक्षणनि तान्येव ग्रहणीरोगस्यापीति भावः। बृद्धस्य तन हत्वा पुनर्न निवत्तते -न जीवती. स्यर्थः । सुस्पष्टमाह-बालके साध्या-यूनि कृच्छूसाध्या। बृद्धे स्वसाध्या- एवेति धन्वन्तरीयाणाम् मतम् ॥ २३-२४ ॥ इतिसुधायां ग्रहणीरोगनिदानम् । Sour- , अथ पञ्चममर्शोरोग-निदानम् ॥५॥ संख्या- पृथग्दोषैः समस्तैश्च शोणितात्सहजानि च अशॉसि षट्प्रकाराणि विद्याद गुदवलित्रये ॥१॥ भतीसारग्रहण्यर्शसां परस्परानुबन्धित्वाद् ग्रहण्यनन्तरमझे निदानमाह- पृथगित्यादि । पृथग्वातादिभिर्दोषैः, समस्तैश्च-मिलितत्रिदोषैः, शोणि- तात्-रक्तात् । सहजातानि सहजानि। षड्विधानि अशीसि गुदवलित्रये विद्यात् । अरिवत् प्राणान् हिनस्तीत्यर्श इति पृषोदरादित्वात्साधुः । सार्द्धचतुर- कुलमानं गुदम् । तदवयवभूताः प्रवाहणी-विसर्जनी-संवरणीनामिकास्तिस्रो वलयः सन्ति । तत्र गुदौष्टमानमर्धाङ्गुलं तदूर्ध्वमेकाङ्गुलपरिमाणा प्रथमा वलिः, सा ङ्गुलमाना द्वितीया तृतीया चेति धन्वन्तरीयाः ॥ १ ॥ सम्प्राप्ति:- दोपास्त्वङ्मांसमेदांसि संदृष्य विविधाकृतीन् । मासाकुरानपानादौ कुर्वन्त्यर्शोसि ताञ् जगुः ॥२॥ अर्शःस्वरूपं सम्माप्तिपुरःसरमाह-दोषा इत्यादि । दोषाः दयः, त्वङमांसमेदांसि, संदूष्य-दूषयित्वा । अपानादौ=अपान-गुदम् , आदि- पदेन नासाऽऽदीनामपि ग्रहणम् । विविधाकृतोन्नानावर्णान् , मासाहु- रान-पिशितप्ररोहान् कुर्वन्ति । तान् अर्शीसि, जगुः कथयामासुः ॥२॥ वाताझेहेतु:-कषायकटुतिक्तानि रुक्षशीतलधूनि च । प्रमिताल्पाशनं तीक्ष्णं मयं मैथुनसेवनम् ॥३॥ लइन्न देशकालौ च शीतौ व्यायामकर्म च । शोको वातातपस्पर्शो हेतुर्वातार्शसां मतः॥४॥ वातार्शसां निदानमाह-कषायेत्यादि। कषायादिवातातपस्पशादिसेवनं पाताशंसां हेतुर्मतः कथितः ॥ ३-४ ॥ पित्ताशोंहेतु:-कट्यम्ललवणोष्णानि-व्यायामाग्न्यातपप्रभाः। वाता-