पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहणीरोगनिदानम् ।। 2:3 " सानिपातिकग्रहण्या लक्षणमाह-पृथग-वातादिनिर्दिष्टहेतुलिङ्गसमागमे त्रिदोषं निर्दिशेदिति ॥ १७॥ संग्रहग्रहणी- अन्नकूजनमालस्यं दौर्बल्यं सदनं तथा । लिङ्गम्-~- द्रवं शीतं धनं स्निग्धं सकटीवेदन शकृत् ॥१८॥ आर्म बहु सपैच्छिल्यं सशब्दं मन्दवेदनम् । पक्षान्मासाइशाहाद्वा नित्यं वाऽप्यथ मुञ्चति ॥१९॥ दिवा प्रकोपो भवति रात्रौ शान्ति ब्रजेच्च सा। दुर्विज्ञेया दुश्चिकित्स्या चिरकालानुबन्धिनी। सा भवेदामवातेन संग्रहग्रहणी मता ॥ २० ॥ अन्त्रकूजनमित्यादिना लक्षणविशेषमाह--अन्नकूजनम् अन्त्रस्य नि- नादः । दौर्बल्यं बलहासः । सदनम् अग्निमान्यम् । सकटीवेदनम् कटी- वेदनायुक्तम् । शकृत पुरीषम् । पक्षात्-मासाद् दशाहाद् वा व्यतीत्य (ल्य- ग्लोपे पञ्चमी ) नित्यं वा । मुञ्चति त्यजति । दिवा दिवसे, प्रकोपो भवति- वर्द्धते । रात्रौ-निशीथे, शान्ति, व्रजेत् । दुर्विज्ञेया दुश्चिकित्स्या चिरकाला. नुबन्धिनी आचीना । आमवातेन जायमाना भवति सा संग्रहग्रहणी, मता कथिता, भिषग्भिरिति शेषः ॥ १८-२० ।। घटीयन्त्रग्रह- स्वपतः पार्श्वयोः शूलं गलज्जलघटीध्वनिः । णोलक्षणम्-तं वदन्ति घटीयन्त्रमसाध्यं ग्रहणीगदम् ॥ २१ ॥ मामता निरामता च-दोषं सामं निराम च विद्यादवातिसारवत् ॥२२॥ आमपक्वयोर्लक्षणशानार्थमाह-दोषमिति । साम निरामञ्च दोषम् , अत्र ग्रहणीगदे, अतीसारवद्-निमजनोत्प्लवनादिना, विद्यात्- जानी- यात् ॥ २१-२२॥ असाध्यरूपं-लिरिसाध्यो ग्रहणीविकारो यैस्तैरतीसारगदो न सिध्येत् । बृद्धस्य नून ग्रहणीविकारो हत्वा तनूं नैव निवर्तते च॥२३॥ वयोभेदेन ग्रहणीसाध्यासाध्यत्वादि- बालके ग्रहणी साध्या यूनि कृच्छा समीरिता । बृद्धे स्वसाध्या विज्ञेया मतं धन्वन्तरेरिदम् ॥ २४ ॥ इति श्रीमाधवकरविरचिते माधवनिदाने चतुर्थ ग्रहणीरोग- निदानं समासम् ॥ ४॥