पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. सुधोपेते माधवनिदाने- पैत्तिकमहण्या निदानसम्प्राप्तिपूर्वकरूपमाह-कट्वजीणेत्यादि । कट्वजी- र्णादिभिः । उल्वणं - प्रबुद्धम् । पित्तं ( कर्तृपदम् ) तप्तं जलम्-उष्णोदकम् , अनलमिव । जठरानलम् , आप्लावयत् - अभिभवं कुर्वत् । हन्ति ॥ १॥ तलक्षणञ्च-सोऽजीर्ण नीलपीताभ पीताभः सार्यते द्रवम् । पूत्यम्लोद्वारहत्कण्ठदाहारुचितृडर्दितः ॥ १२ ॥ सा=आतुरः, पीताभो जायते । अजीर्णम् =अपरिपकम् , नीलपीताभ नीलपीतवर्णम् । द्रवं, पुरीषम् , सार्यते-रेचयति । स च पूत्यम्लोद्गारहत्क- ण्ठदाहारुचिनृभिः अदितः = पीडितश्च भवति ॥ १२ ॥ कफग्रहणीहेतु:-गुर्वतिस्निग्धशीतादिभोजनादतिभोजनात् । भुक्तमात्रस्य च स्वमाद्धन्त्यग्नि कुपितः कफः ॥१३॥ श्लैष्मिकग्रहण्या निदानादिपूर्वकरूपं वर्णयन्नाह-गुर्वित्यादि । अतिगुरु- स्निग्धादिभोजनात् , अतिभोजनात्-भुक्तमात्रस्य च स्वप्नात, कुपितः -प्र- बृद्धः । कफः श्लेष्मा, अग्नि हन्ति ॥ १३ ॥ तल्लक्षणञ्च-तस्यान्न पच्यते दुःख हुल्लासच्छरोचकाः । आस्योपदेहमाधुर्य कासष्ठीवनपीनसाः ॥१४॥ हृदयं मन्दते स्त्यानमुदरं स्तिमितं गुरु । दुष्टो मधुर उदारः सदनं स्त्रीष्वहर्षणम् ॥१५॥ भिन्नामश्लेष्मसंसृष्टगुरुवर्चः प्रवर्तनम् । अकृशस्यापि दौर्बल्यमालस्यं च कफात्मके ॥१६॥ तस्य - रोगिणः, अन्नं - भुक्तं, दुःख-चिरात् , पच्यते । हृल्लासाद- योजायन्ते । आस्योपदेहमाधुर्यम् - आस्यस्य मुखस्य उपदेहमाधुर्य=लिप्तत्वं मधुरत्वं च श्लेष्मणैव । हृदयं, स्त्यानं धनद्रवापूरितमिव, उदर, स्तिमितं निश्चल, गुरु - जडं , मन्यते । अस्य दुष्टः - विकृतः । मधुरः-माधुर्योपल- क्षितः । उद्गारः । सदनम् - अग्निमान्धम्। स्त्रीष्वहर्षणं-स्त्रीविषयकप्रीत्य- भावः । भिन्नं च तदामश्लेष्मन्यां ससष्टञ्च गुरु वर्ष:प्रवर्तनम् - पुरीषनिर्गमः, अकृशस्याऽपि दौर्बल्यं स्थूलवतोऽपि कर्मण्यसामर्थ्यम् ॥ १४-१६ ॥ त्रिदोषहेतुलिङ्गे-पृथावातादिमिर्दिष्टहेतुलिङ्गसमागमे । त्रिदोष निविशेदेवं तेषां वक्ष्यामि भेषजम् ॥१७॥ -