पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहणीरोगनिदानम् ।। मारुतः कुपितो वह्नि संछाय कुरुते गदान् ॥५॥ पातिकग्रहण्या निदानसम्प्राप्तिपुरस्सर रूपमाह-कटुतिक्तेत्यादि । कति- कादिभोजनैः, एतेहैं तुभिः प्रकुपितो मारुतः, वहि संछाध गदान् कुरुते, इत्य- न्वयः । सन्दुष्टभोजन-संयोग-संस्कागदिविरुद्ध भोजनम् । प्रमित स्वल्पभो- मनम् । अनशनं - लवनम् ॥ ५॥ तलक्षणञ्च-तस्यान्नं पच्यते दुःखं शुक्तपार्क खराङ्गता ॥ ६ ॥ कण्ठास्यशोषः क्षुत्तृष्णा तिमिरं कर्णयोः स्वनः । पावोरुषवणग्रीवारुगभीक्ष्णं विचिका ॥ ७ ॥ हृत्पीडाकायदौर्बल्यं वैरस्य परिकर्तिका । गृद्धिः सर्वरसानां च मनसः सदर्न तथा ॥ ८॥ जीणे जीर्यति चाध्मानं भुक्ते स्वास्थ्यमुपैति च । स वातगुल्महृद्रोग-प्लीहाशकी च मानवः ॥९॥ चिराहुःखं द्रवं शुष्क तन्वाम शब्दफेनवत् । पुनः पुनः सृजेवर्चः कासवासादितोऽनिलात् ॥१०॥ कान् गदान् विदधातीत्यत आह-तस्यान्नमित्यादि तस्य ग्रहणीरो- गपीडितस्य, अन्न, दुःखं = समयाधिक्येन, पच्यते । शुक्तपाकम् - अम्ल- पाकम् । खराङ्गता कठोर लेवरत्वम् । वायुना स्वग्गतस्नेहशोषणात् । तिमि स्वल्पदृष्टिता । कर्णयोः स्वनः श्रोत्रयोः शब्दः । अभीक्ष्णं-निरन्त- रम् । पाश्वोरुवक्षणग्रीवास्क् । रुक्शब्दः पादादिभिः प्रत्येकं सम्बद्ध यते । विषूचिका- वमनविरेचने। वैरस्य-मुखस्य स्वादाभावः। परिकर्तिका गुदे परिकर्तनवत् पीडा। सर्वरसानां- मधुरादीनां, गृद्धिः = अभिलाषा। मनसः सदनं चित्तावसादः। जीणे जीर्यति चान्ने आध्मानम् । भुक्ते- भोजने कृते सति, स्वास्थ्यम् । उपैति-प्राप्नोति । सः, मानवः - मनुष्यः। वातगुल्महृद्रोगप्लीहाशङ्की च भवति । अनिला=वायोः। कासश्वासा- दितः सन् , चिरादू दीर्घकालेन । दुःखं द्रव कदा चित् शुष्कं कदा चित्, शब्दफेनवत्- शब्दयुक्त फेनयुक्त च, वर्चः- पुरीषम् । पुनः पुनः- भूयो. भूयः, सृजेत् त्यजेत् ॥६-१०॥ पित्तग्रहणीहेतुः-कट्वजीर्णविदायम्लक्षाराषैः पित्तमुल्वणम् । आप्लावयन्स्यनलं जलं सक्षमिवानलम् ॥११॥