पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अतीसारनिदानम् ३। - लासं-कर्फ, मलाक्तं -पुरीषयुक्त, प्रवाहतः प्रवहणं कुर्वतः। अल्पं स्वल्प, बहुशः- बहुवारान् , अधस्तात्-नीचर्मार्गेण, नुदति -प्रेरयति । तज्ज्ञा: वैद्याः, तां-पीडाम् , प्रवाहिकां, प्रवदन्ति कथयन्ति । द्रवद्रव्य- सरणसाम्यादामपक्वयोगसम्भवाच्च प्रवाहिकाऽतीसारयोः साधर्म्य बुद्ध्वाऽती- सारे प्रवाहिकोल्लेखः। अतीसारे नानाविधद्वधातुसरणं प्रवाहिकायां कफ- मात्रसरणमिति परस्परं भेदः । अन्यत्र प्रवाहिकाया नामान्तराण्युपलभ्यन्ते, यथा- विस्रंसी, अन्तर्ग्रन्थिः, निश्चारक-इत्यादि ॥ २१ ॥ वातजापित्तजारक्त-प्रवाहिका वातकृता सशूला, जाप्रवाहिका:- पित्तात्सदाहा, सकफा कफाच्च । सशोणिता शोणितसम्भवा च, ताः स्नेहरूक्षप्रभवा मतास्तु ॥२२॥ तासामतीसारवदादिशेच्च लिङ्ग क्रम चामविपक्वतां च ॥२३ ॥ वातादिभेदेन तस्या रूपाण्याह-वातकृता प्रवाहिका सशूला-शूलयुक्ता, पित्तात् ( जायमाना ) प्रबाहिका सदाहा-दाहयुक्ता । कफादुत्पन्ना प्रवाहिका, सकफा-श्लेष्मयुक्ता । शोणितसम्भवा-रक्तजा प्रवाहिका, सशोणिता- रक्तयुक्ता ज्ञातव्या । ता:-प्रवाहिकाः । स्नेहश्च रूक्षश्च तौ स्नेहरूक्षौ ताभ्यां सम्भव उत्पत्तिर्यास ताः स्नेहरुक्षप्रभवाः, मताः- कथिताः। तासां - प्रवा- हिकाणां, लिङ्ग- लक्षणं, क्रम = चिकित्सितञ्च. अतीसारवत् , आदिशेत् = जानीयात् ॥ २२-२३ ॥ गतातीसाररूप-यस्योचारं विना मूत्रं सम्यग्वायुश्च गच्छति । दीसाग्नेर्लधुकोष्ठस्य स्थितस्तस्योदरामयः॥२४॥ ज्वरातीसाररूप-ज्वरातीसारयोरक्त निदानं यस्पृथक् पृथक् । तत्स्याज्ज्वरातिसारस्य तेन मानोदितं पुनः) ॥२५॥ इति श्रीमाधवकरविरचिते माधवनिदाने तृतीय- मतिसारनिदान समातम् ॥३॥ अतीसारनिवृत्तिलक्षणमाह-यस्येत्यादि । यस्य-रोगिणः, उधार पुरीष, विना मूत्रं प्रवर्तते। वायुश्च सम्यक् = प्रकर्षण गच्छति । गुदेनेति शेषः। दीसाग्नेः-संदीप्तजठरानलस्य, लघुकोष्टस्य = गुरुत्वशून्यामाशयादेः, तस्य- पुरुषस्य, उदरामयः- जठराधिष्ठितो रोगः, स्थितः निवृत्त इति ॥२४॥ इति सुधायां तृतीयमतिसारनिदान समाप्तम् ॥३॥