पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- 1 अन्यच्च-हस्तपादाङ्गुरलेः सन्धिप्रपाको मूत्रनिग्रहः । पुरीषस्योष्णता चैव मरणायातिसारिणाम् ॥३॥) तृष्णेत्यादि । तृष्णाऽऽदीनां पाश्वास्थिशलान्तानां पदानां द्वन्द्वं कृत्वा मत्व- थींय इनि प्रत्ययः। तृष्णायुक्तं दाहयुक्तमित्याद्यर्थः। एवमग्रेऽप्यर्थः। संमू- रितिसंमोहयुक्तं-संमूर्छा मनोमोहः, अरति: ग्लानिः, संमोहः=इ- न्द्रियमोहः, पबलीगुदम् = पक्वा बलयो गुदे यस्य तं तथोक्तम् । प्रलाप- युक्तम् = असम्बद्धभाषणोपेतम् । अतिसारिणम् = अतिसाररोगिणं, त्यजेत्= न चिकित्सेत् , असाद्धयत्वादित्यर्थः। असंवृतगुदं = पायुसंवरणाक्षमम् । क्षीणं = बलोपचयरहितम् । दूराध्मातम् - अत्याध्मानयुक्तम् । उपद्रुतम् अतिसारोपद्रवयुक्तम् । गुदे पक्वे गतोष्माणं - पाकारम्भकपित्तसद्भावेऽपि शीतशरीरम् । अतिसारकिणम् अतिसारयुक्तम् । (वातातीसाराभ्यां कुक् च ) इति कुक् चादिनिः ॥ १७-१८ ।। श्वासशूलपिपासाऽऽर्त क्षीणं ज्वरनिपीडितम् । विशेषेण नरं वृद्धमतीसारो विनाशयेत् ॥१९॥ वृद्धं नरं विशेषेण क्वचिद् बालस्याप्यसाध्यत्वं, यदाह सुश्रुत:-'कृच्छ्र- श्वायं बालबृद्धष्वसाध्य' इति ॥ १९ ॥ रक्तातिसार- पित्तकृन्ति यदाऽत्यर्थ दुव्याण्यश्नाति पैत्तिके । हेतुः- तदोपजायतेऽभीक्ष्णं रक्तातीसार उल्वणः ॥ २० ॥ ननु सप्तमस्य रक्तजस्याप्यतीसारस्य सम्भवात् षट्त्वं विरुद्धथत इत्याशक्य पैत्तिकस्यैवातिसारस्यावस्थाविशेषेण रक्तातीसारोऽपि भवतीति दर्शयति-पित्ते- त्यादिना। पैत्तिके-अतिसारे भविष्यति वर्तमाने वा। यदा पिसकृन्ति- पित्तकारीणि । द्रव्याणि=भोज्यानि, अत्यर्थम् अत्यधिकम् । अभीक्ष्ण-नि- रन्तरम् , अश्नाति-भक्षयति तदा उल्वणः-महान् , रक्तातीसार उपजा- यत इति ॥ २०॥ प्रवाहिकासंप्राप्तिः- वायुः प्रवृद्धो निचितं बलासं नुदत्यधस्तादहिताशनस्थ । प्रवाहतोऽल्पं बहुशो मकाक्तं प्रवाहिकां तां प्रवदन्ति तज्ज्ञाः ॥२१॥ प्रवाहिकायाः सम्प्राप्तिमाह-वायुरित्यादि । अहितासनत्य-अपथ्य- भुजः । प्रवृद्धः-प्रकुपितः। वायुः- अनिलः । विचितम्-पकलस्थितम् । व- .