पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- ज्वरमोक्षलक्षणं-दाहः स्वेदो भ्रमस्तृष्णा कम्पविभिदसंज्ञिता। कूजनं चास्यवैगन्ध्यमाकृतिवरमोक्षणे ॥ ८५ ॥ ज्वरविमुक्तिपूर्वरूपमाह-दाह इत्यादि। ज्वरमोक्षणे-ज्वरस्य परित्या- गकाले, एतादृशी-आकृतिः लक्षणं दृश्यते । दाहः विभित्-पुरीषप्रवृत्तिः, असंज्ञिता चेतनानाशः, कूजनम् = अस्फुटध्वनिः-आस्यवैगन्ध्यं = मुखस्य दुर्गन्धता ।। ८५॥ विज्वरपुरुष-विगतलमसन्तापमव्यर्थ विमलेन्द्रियम् । लक्षणम्-युक्तं प्रकृतिसत्वेन विद्यात् पुरुषमज्वरम् ॥ ८६ ॥ ज्वरमुक्तलक्षणं-स्वेदो लघुत्वं शिरसः कण्डूः पाको मुखस्य च । क्षवथुश्चान्नलिप्सा च ज्वरमुक्तस्य लक्षणम् ॥ ८७ ॥. इति श्रीमाधवकरविरचिते माधवनिदाने द्वितीयं ज्वरनिदान समाप्तम्॥२॥ ज्वरमुक्तस्य लक्षणमाह-स्वेद इत्यादि । स्वेदः-धर्मनिर्गमः, लघुत्वं शरीरस्य लाधव, क्षवथुः छिक्का, अन्नलिप्सा-अन्नभोजनेच्छा ।। ८७ ।। इति सुधाऽभिधायां माधवनिदानटिप्पण्यां द्वितीयं ज्वरनिदानम् ॥ २ ॥ अथ तृतीयमतीसारनिदानम् ॥ ३॥ कारणम्-गुर्वतिस्निग्धरूक्षोष्णद्रवस्थूलातिशीतलैः । विरुद्धाध्यशनाजीणेविषमैश्चापि भोजनैः ॥१॥ स्नेहाचैरतियुक्तैश्च मिथ्यायुक्तविषैर्भयैः। शोकाद्दुष्टाम्बुमद्यातिपानः सात्म्यर्तुपर्ययः ॥३॥ जलाभिरमणबंगविधातैः क्रिमिदोषतः। नृणां भवत्यतीसारो लक्षणं तस्य वक्षरते ॥३॥ ज्वरातिसारयोरन्योऽन्योपद्रवत्वाज्वरानन्तरमतीसारमाह-गुर्वतीत्यादि । एभिनिर्दिष्टः कारणैर्नृणामतिसारो भवति । गुरुशब्देन मात्रागुरुर्गृह्यते । अतिशब्दः स्निग्धादिस्थूलान्तः प्रत्येकमन्वेति । अतिस्निग्धैः तिरुक्षः-अतिवैरित्यादि । तथाऽति, शीतलद्रव्यविरुखभोजनैः संयोगसं- स्कारादिविरुद्धैः। अध्यशनै भुक्तोपरिभुक्तः (भुक्तस्योपरि यद भुक्कं तद- अ.