पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ सुधोपेते माधवनिदाने- बहिर्वेगज्वरः-सन्तापो घधिको बाह्यस्तृष्णाऽऽदीनां धमार्दवम् । बहिवेंगस्य लिङ्गानि सुखसाध्यत्वमेव च ॥ ७१ ॥ तृष्णाऽऽदीनामित्यत्र आदिपदेन प्रलापादीनाञ्च ग्रहणं बोध्यम् । मार्दवं स्वल्पता ॥ ७१॥ आमज्वरमाह-लालाप्रसेको हुल्लासहृदयाशुद्धयरोचकाः । तन्द्राऽऽलस्याविपाकास्यवैरस्यं गुरुगात्रता । क्षुन्नाशो बहुमूत्रत्वं स्तब्धता बलवा ज्वरः ॥ ७२ ॥ आमज्वरस्य लिङ्गानि न दद्यात्तत्र भेषजम् । भेषज ह्यामदोषस्य भूयो ज्वलयति ज्वरम् ॥ ७३ ॥ (शोधनं शमनीयं तु करोति विषमज्वरम् । तस्मादत्रौषधं प्राजैन देयं सप्तरात्रकम् ॥ चिकित्साविशेषप्रणयनाय आमपच्यमाननिरामज्वरांल्लिक्षयिषुराह-ला- लेत्यादि। लालाप्रसेका मुखेन लालाविनिर्गमः, हल्लास:-उपस्थितवमन- त्वमिव, आस्यवैरस्य-मुखस्य विरुद्धरसता ।। ७२-७३ ।। पच्यमानज्वरः-ज्वरवेगोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः । मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम् ॥ ४ ॥ प्रलापोऽसम्बद्धभाषणं, मलस्य प्रवृत्तिर्मलप्रवृत्तिः पुरीषस्य प्रवर्त्तनम्।।७४॥ निरामज्वरः-क्षुत्क्षामता लघुत्वं च गात्राणां ज्वरमार्दवम् । दोषप्रवृत्तिरष्टाहो निरामज्वरलक्षणम् ॥ ७ ॥ क्षुत्-तुधा, क्षामता-गात्राणां, लघुत्वञ्च-गात्राणामेव । दोषप्रवृत्तिः= सम्यगवायुमोक्षः, अष्टाह: अष्टदिनात्मकः कालः ।। ७५ ॥ साध्यज्वररूपं-बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः ॥ ७६ ॥ ज्वरस्य साध्यलक्षणन्याह-बलवस्विति । बलवत्सु मनुष्येषु,क्रियासहेषु, अल्पदोषेषु नात्युत्कृष्टदोषेषु, अनुपद्रवः उपद्रवशून्यः, ज्वरः साध्यः- सुचिकित्स्यः । कासो मूर्छाऽरुचिश्चर्दिस्तृष्णाऽतीसारविग्रहाः। हि- काश्वासाङ्गभेदाश्च ज्वरस्यापद्रवा दश' ।। ७६ ॥ असाध्यज्वररूप-हेतुभिर्बहुभिर्जातो बलिभिबहुलक्षणः । ज्वरः प्राणान्तकृयश्च शीघ्रमिन्द्रियनाशनः ॥ ७ ॥ ज्वरस्यासाध्यलक्षणानि विवृणोति-हेतुभिरित्यादिग्रन्थेन । यो ज्वरो बहु- भिर्वलिष्ठे हेंतुभिः कारणः, जातः उत्पन्नः, बहुलक्षण: बहूनि लक्षणानि यस्य "