पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- (१)तृतीयकचतुर्थको-तृतीयकस्तृतीयेऽहि चतुर्थेऽहि चतुर्थकः ॥ ४६॥ तृतीयदिवसे यः प्रवर्त्तते स तृतीयकः। चतुर्थे दिवसे यः प्रवर्तते स चतु- र्थक इति। ननु मुक्तानुबन्धित्वरूपस्य विषमत्वस्य सततादावभावाद् विषम. ज्वरे पाठोऽसङ्गत इति चेन । एतेषामपि तथा भावात् । “विसर्ग द्वादशे कृत्वा दिवसेऽव्यक्तलक्षणः । दुर्लभोपशमः काल दीर्घमप्यनुवर्तते" इति चर- कोक्तेः । सन्ततादौ मुक्तानुबन्धस्यैकदाभावित्वेन स्वल्परूपत्वात् तद्व्यवहारो- नोपपद्यते एकहरिमन्थभक्षणेऽप्यनशनशब्दव्यवहारवत् ॥ ४६॥ तृतीयकप्रभावः-कफपित्तात् त्रिकग्राही पृष्टाद्वातकफात्मकः । वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः ॥४७॥ दोषोल्वणभेदेन तृतीयकचतुर्थकयोलक्षणान्याह-कफपित्तादिति। त्रिक गृह्णातीति त्रिकग्राही वेदनया त्रिकव्यापीत्यर्थः । पृष्ठादिति 'ल्यब्लोपे पञ्चमी" वेदनया पृष्ठं व्याप्य तद्ग्राहीत्यर्थः । वातपित्तात् शिरोग्राही । एवं तृतीयको ज्व- रस्त्रिविधो भवति ॥ ४७॥ चतुर्थकप्रभावः-चतुर्थको दर्शयति प्रभावं द्विविधं ज्वरः । जवाभ्यां श्लैष्मिकः पूर्व शिरस्तोऽनिलसम्भवः ॥४८॥ चातुथिको ज्वरोऽपि द्विविधः-इलैष्मिको जङ्घाभ्यां प्रथमं जायते । हत्येकः। अनिलसम्भवः पूर्व शिरसो जायमानो द्वितीयः ॥ ४८ ॥ चतुर्थकविपर्ययः-विषमज्वर एवान्यश्चतुर्थकविपर्ययः । समध्येऽहि ज्वरयति ह्यादावन्ते च मुञ्चति ॥ ४९ ॥ चतुर्थकविपर्ययमाह-विषमेत्यादि। अयमप्यन्यो विषमज्वर एव चतु- र्थकविपर्यायाभिधानः । स मध्ये ज्वरयत्यहि, ह्यादावन्ते विमुञ्चति, आरम्भे चैकं दिन मुक्त्वा मध्ये दिनद्वयं ज्वरयति । अन्ते चैकदिनं न भवतीति चतुर्थकविप- र्ययः । एवं तृतीयकादिविपर्ययोऽप्यूहनीयः ॥ ४९ ।। वातबलासकज्वरः-नित्यं मन्दज्वरो रूक्षः शूनकस्तेन सीदति । स्तब्धाङ्गः श्लेष्मभूयिष्ठो नरो वातबलासकी ॥१०॥ वातबलासकज्वरमाह-नित्यमित्यादि । वातेन प्रेरितो बलासक श्रारम्भ- (१) तृतीयकचतुर्थकयोरुत्पत्तिबीजम्- अधिशेते यथा भूमि बीजं काले प्ररोहति । अधिशेते तथा धातून् दोषः काले प्रकुप्यति।। समृद्धिं बलकालं च प्राप्य दोषस्तृतीयकम् । चतुर्थकं च कुरुते प्रत्यनीकवलक्षयात्।। । -