पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्वरनिदानम् । २३ तात् कालाच्छीतोष्णाभ्यां तथैव च । वेगतश्चापि विषमो ज्वरः स- विषमः स्मृतः' इति ॥ ४१ ।। तस्यागन्तुकारणं-के चिद्ताभिषङ्गोत्थं ब्रुवते विषमज्वरम् ॥४२॥ एकीयमतमाह-के चिदित्यादि । भूनाभिषगजमप्येक विषमज्वर के चिद् भाषन्ते ॥ ४२ ॥ समविषमौ ज्वरौ-(पुनः पञ्चविधो दृष्टो दोषकालबलाबलात्) सन्ततः सततोऽन्येधुस्तृतीयकचतुर्थको । सन्तत रसरक्तस्थः सोऽन्येधुः पिशिताश्रितः । मेदोगतस्तृतीयेऽह्नि ह्यस्थिमजगतः पुनः॥ कुर्यात्च्चतुर्थकं घोरमन्तक रोगसंकरम् ॥ ४३ ॥ पञ्चविध सन्ततादिज्वरमाह-सन्ततमित्यादिना। सन्ततशब्दः सततस्यो- पलक्षणम् । तथा च रसाश्रयो दोषः सन्ततं करोति, रक्तस्थश्च सततं, पिशि- ताश्रितः=मांसाधिष्ठितो दोषः, अन्येद्युष्क, मैदोगतः तृतीय दिवसे तृतीयकम् अस्थिमज्जगतः, घोरं = सुदुःसहं रोगसकर नानाव्याधिसंकुलम् , अन्तक यमराजमिव प्राणनाशकत्वाच्चतुर्थकं कुर्यात् ॥ ४३॥ समज्वरलक्षणम्- सन्ततस्वरूपम्--'स्रोतोभिर्विसृता दोषा गुरवो रसवाहिभिः । सर्वदेहानुगाः स्तब्धा ज्वरं कुर्वन्ति सन्ततम् ॥) सप्ताहं वा दशाहं वा द्वादशाहमथापि वा सन्तत्या योऽविसर्गी स्यात्सन्ततः स निगद्यते ॥४४॥ अथैषां लक्षणान्याह-रसवाहिभिः स्रोतोऽभिविसृताः = विस्तारङ्गताः, गुरवो-महान्तः, दोषाः सर्वदेहानुगाः= सकलशरीरानुधाविनः स्तब्धाः सन्तः सन्ततमविच्छिन्नं, ज्वरं कुर्वन्तीत्यन्वयः। कालमर्यादामाह-सप्ताहमित्यादि सन्तत्या= नैरन्तव्येण, सप्तदिनं यावत् । अविसर्गी अत्यागस्वभावः ॥४४॥ विषमज्वरलक्षणानि तत्र- सततान्येधुष्कयोः- अहोरात्रे सततको द्वौ कालावनुवर्तते । स्वरूपम्- अन्येयुष्कस्त्वहोरात्र एककाल प्रवर्तते ॥४॥ सतत इति । सततको = ज्वरः, अह्नि, द्वौ कालौ-रात्रौ वा द्वौ कालौ । 'दिवसे एककाल निशीथे वाप्येककालमिति मिलित्वा द्वौ कालावनुवर्तते' इत्येक:- पक्षः । अन्येशुष्कस्तु-अहि रात्रौ वा एककाल वेगं करोति ॥ ४५ ॥

.