पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ सुधोपेते माधवनिदाने- णगुरुवृद्धतपस्विनामनिष्टवाक्यम् ,अभिषणः = कामादीनां भूतानां च सम्बन्धः । एभिः कारणरागन्तुर्वरो जायतेऽत्रापि दोपसम्बन्धो भवति । भेदस्तु-इयानेव, अन्यत्र व्याधौ पूर्व दोषसम्बन्धो जायतेऽत्र पश्चाद्दोषसम्बन्धो न त्वारम्भ- काले इति ॥ ३३॥ विषकृतज्वररूपं--श्यावास्यता विपकृते तथाऽतीसार एव च । भक्तारुचिः पिपासा च तोदश्च सह मूर्च्छया ॥३४॥ विषजज्वरमाह-श्यावास्यतेति । विपकृते = स्थावरादिविषभक्षणाजा- यमाने, श्यावः = धूम्रवर्णः, आस्यं = मुखं तस्य भावस्तत्ता श्यावास्यता { "श्यावः स्यात्कपिशो धूम्र" इति कोपः ) । अतिसारः, विषस्याधोगमनशी- लत्वात् ।। ३४॥ ओषधिगन्धजो ज्वरः ओषधिगन्धजे मूर्छा शिरोरुवमथुः क्षवः ॥३५॥ ओषधिगन्धजमाह ओषधिगन्धजे= तीव्रौषधीनां गन्धाजाते, मूर्छा ==अचैतन्यम् , वमथुः छर्दिः, क्षवःछिका ॥ ३५ ॥ कामजो ज्वरः-कामजे चित्तविभ्रंशस्तन्द्राऽऽलस्यमभोजनम् । (हृदये वेदना चास्य गात्रं च परिशुष्यति)॥३६ ॥ कामजमाह-कामजे-अनङ्गोटे गजे, अभीप्सितकामिन्यायसङ्गमजे ज्वरे, चित्तविभ्रंशः-किंकर्तव्यहीनता ॥ ३६ ।। भयशोककोपजा ज्वराः-भयात्प्रलापः शोकाच्च भवेत्कोपाच्च वेपथुः ॥३०॥ अभिचारशापजौ--अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते ॥३८॥ भूताभिषङ्गजः-भूताभिषङ्गादुद्वेगो हास्यरोदनकम्पनम् ॥३९॥ भूताभिषङ्गजमाह-भूताभिषङ्गात् = भूतस्य = देवादिग्रहस्य, अभिषङ्गः • सम्बन्धः, भूताभिषङ्गस्तस्माद् भूताभिषङ्गात् । उद्वेगःचित्तविकलता॥३९॥ दोषकोपविवेकः--कामशोकभयाद्वायुः, क्रोधात्पित्तं, त्रयो मलाः। भूताभिषात्कुप्यन्ति भूतसामान्यलक्षणाः ॥४०॥ विषमज्वरहेतुः--दोषोऽल्पोऽहितसंभूतो ज्वरोत्सृष्टस्य वा पुनः । धातुमन्यतमं प्राप्य करोति विषमज्वरम् ॥४१॥ विषमज्वरमाह-ज्वरोत्सृष्टस्य = ज्वरमुक्तस्य वा, अल्पः = स्वल्पोऽपि, दोषः, अहितसम्भूतः= विरुद्धाचारादिजनितः, अन्यतमं धातु रसासृङमां- मादिकं, व्याप्य, विषमज्वरं - तृतीयादिकं ज्वरं, करोति= विदधाति,यस्तु- आरम्भादेव बलवान् सनित्यं ज्वरयति विषमज्वरलतणं 'यथा-यः स्यादनिय-