पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्वरनिदानम् ।। २१ वा पाकरुजाऽन्वितेषु । पक्वेषु वा तेषु रुजाज्वरातः स धातुपाकी कथि- तोभिषग्भिः ॥२॥ २६ ॥ कर्णमूल-सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः । शोथमाह-शाथः सञ्जायते तेन कश्चिदेव प्रमुच्यते ॥ २७ ॥ सन्निपातज्वरस्योपद्रवमाह-सन्निपातेत्यादि । सन्निपातज्वरावसाने सन्निपा- तग्लपितदेहस्य प्राणिनः कर्णमूले सुदारुणो भयङ्करः, शोथः सआयते तेन कश्चिदेव मनुष्यो जीवतीति वाक्यार्थः ॥ २७ ॥ अभिन्यास- (वयः प्रकुपिता दोषा उरःस्रोतोऽनुगामिनः । ज्वरमाह-आमाभिवृद्धया ग्रथिता बुद्धीन्द्रियमनोगताः ॥२८॥ जनयन्ति महाघोरमभिन्यासं ज्वरं दृढम् । श्रुतौ नेने प्रसुप्तिः स्यान्न चेष्टां कां चिदीहते ॥२९॥ न च दृष्टिर्भवेत्तस्य समर्था रूपदर्शने । न घ्राणं न च संस्पर्श शब्द वा नैव बुद्ध्यते ॥३०॥ शिरो लोठयतेऽभीक्ष्णमाहारं नाभिनन्दति । कूजति तुद्यते चैव परिवर्तनमीहते ॥ ३१ ॥ अल्पं प्रभाषते किंचिदभिन्यासः स उच्यते प्रत्याख्यातः स भूयिष्ठः कश्चिदेवात्र सिद्धयति) ॥ ३२ ॥ अभिन्यासज्वरमाह-अयः प्रकुपिता इति । “उरः स्रोतोऽनुगामिनः प्रकु- पितास्त्रयो दोषा आमाभिबृद्धया ग्रथिता बुद्धीन्द्रियमनोगताः सन्तो दृढं महाघो- रमभिन्यासज्वरं जनयन्ती"त्यन्वयः । श्रुतौ श्रोत्रेन्द्रिये, नेत्रे - नयने, प्रसु- तिः = तद्तद्विषयाग्राहित्वम् । अभीक्ष्णं शिरो लोठयते-मुहुर्मुहुर्मस्तकं चालयति, आहार नाभिनन्दति = भोजनं नेच्छति, कूजति क्रोशति, परि- वर्त्तनं पार्श्वपरिवर्तनम्, ईहते= चेष्टते । भूयिष्ठः प्रत्याख्यातः आधिक्ये. नासाध्य एव भवति । कश्चिदेवात्र सिद्धयति -प्राणान् धारयति ॥ २८-३२ ॥ आगन्तुज्वर-अभिघाताभिचाराभ्यामभिशापाभिषङ्गतः । निदानम्-आगन्तुर्जायते दोषैर्यथास्वं तं विभावयेत् ॥ ३३ ॥ अभिषङ्गविषये-(कामशोकभयक्रोधैरभिषक्तस्य यो ज्वरः । चरकोक्तिः-सोऽभिषङ्गज्वरो ज्ञेयो यश्च भूताभिषङ्गजः) आगन्तुज्वरमाह-अभिघातेत्यादि । अभिघातः- लोष्ठशस्त्रमुद्गरादिभिर- मिहननम् । अभिचारः = विपरीतमन्त्रैः सर्षपादिहोमः । अभिशापो ब्राह्म- -