पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- %ES अभिन्याससन्निपातलक्षणम्- दोषत्रयस्निग्धमुखत्वनिद्रा वैकल्यनिश्चेतनकष्टवाग्मी। बलप्रणाशः श्वसनादिनिग्रहोऽभिन्यास उक्तो ननु मृत्युकल्पः ।। २४ ॥ हारिद्रकज्वरलक्षणम्- हारिद्रदेहनखनेत्रकराङघ्रिताप-निष्ठीवनादिकसनैरुपलक्षितो यः । हारिद्रकःसकथितः किल सन्निपातः-साध्योन चैष भिषजां ज्वरकालरूपः ॥२५॥ सनिपातावधिः-सद्यस्त्रिपञ्चसप्ताहाद दशाहाद् द्वादशादपि । एकविंशद्दिनैः शुद्धः सन्निपाती सुजोवति ॥ २६ ॥ इति । सन्निपातज्वरस्या-दोषे विबद्ध नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः । माध्यलक्षणम्-सन्निपातज्वरोऽसाध्यः कृच्छ्रसाध्यस्ततोऽन्यथा ॥२४॥ समासतः सन्निपातज्वरस्थासाध्यलक्षणान्याह-दोष इत्यादि । दोषे - मले वातादिके वा, विबधे। नष्टेऽसौ = विगतजठराग्निप्रभावे आहारपाका- गम्यत्वादिति भावः सर्वाणि = निखिलानि, सम्पूर्णानि बलवन्ति, लक्षणानि- - चिह्नानि यस्य स तथा। सन्निपातज्वरः, असाध्यः= प्रत्याख्येयः, ततो. ऽन्यथा विसदृशः, अविबद्धदोषोऽल्पलक्षणः । कृच्छ्रसाध्यः। उक्तं च भालु- किना-"मृत्युना सह योद्धव्यं सन्निपातं चिकित्सता। यस्तु तत्र भवे- ज्जेता स जेताऽऽमयसैकुले ॥ सन्निपातार्णवे मग्नं योऽभ्युद्धरति मान- वम् । कस्तेन न कृतो धर्मः कां वा पूजां न सोऽहति ॥ २४ ॥ सन्निपातमर्यादा-सप्तमे दिवसे प्राप्ते दशमे द्वादशेऽपि वा। पुनोरतरो भूत्वा प्रशमं याति हन्ति वा ॥२५॥ सन्निपातज्वरस्य मोक्षवधयोः कालावधिमाह-ससम इत्यादि । सप्तमे दशमे द्वादशेऽपि वा दिवसे प्राप्ते पुनर्घोरतरो भूत्वा प्रशमं याति - शान्ति- मापद्यते । हन्ति मारयति वा ॥ २५ ॥ तद्विगुणा-सप्तमी द्विगुणा चैव नवम्येकादशी तथा । मर्यादा च- -एषा त्रिदोषमादा मोक्षाय च वधाय च ॥ २६ ॥ सप्तमी द्विगुणा = चतुर्दशी, नवमी तथा एकादशी द्विगुणा-अष्टादशी द्वाविंशतिर्वा, त्रिदोषमर्यादा मोक्षाय, वधाय च विशेया। (अपि -पित्त- कफानिलवृद्धया दशदिवसहापशाहसताहात्। हन्ति विमुञ्चति वाऽपि त्रिदोषजो धातुमलपाकात् ॥१॥ धातुपाकलक्षणं तन्त्रान्तरे-सम्बाध्यमानो हृदि नाभिदेशे गानेषु