पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माधवनिदाने- मनोहरे सच्छिखरे सनिझरे विराजमान घटमूल भासने । समस्तविज्ञाननिधि मुनीश्वरं नितान्तमायुविदुषामधीश्वरम् ॥३॥ तपःप्रभादीलकलेवर गुरु दयालुमात्रेयमुरभ्र आदरात् । कृताञ्जलिश्चातनरानुकम्पया प्रशान्तचेता इति साध्वभाषत ॥३॥ अभूत्कथं चात्र जनिस्तु ताण्डवा-मयस्य चिहामि च कानि तस्य । कथं प्रतीकारमिहाचरेज्जन-स्तदीयमेतत्कृपयाऽखिलं वद ॥४॥ इमामधिश्चत्य तदर्थनां वरा-मृषीश्वरो धीरतरोऽत्युदारः । तमात्मशिष्यं प्रति शिष्यवत्सलो-वीदिदं व्यक्तपदार्थवद्वचः ॥६॥ ताण्डवरोगस्य निदानम् । आत्रेय उवाच- प्रीतोऽस्मि हे वत्स ! तवातिभक्त्या यच्छ्रोतुमिच्छस्यधुना वे तत् । इदं तु दक्षाय पुराऽवदजगत पितामहो लोकहिताय हर्षितः॥६॥ चिन्तनातरूपरानुबन्धतो बलक्षयात्क्रोधमुदोः प्रकर्षतः । क्रिमेश्चयात स्वप्ननिरोधहेतुतः प्रकर्षणादप्यसिविविवन्धतः ॥७॥ आशातिघातादधिकाभिघातात् स्त्रीणां विशेषेण रजोविकारा। अत्युमभावाननु पृष्ठवंशे कशेरुकाभानमुद्भवेद् यत् ॥८॥ स देहिनां दुःखकरः परः सदा गदोऽगदकारवरैरुदीरितः। अकाण्डमेवाङ्गकदम्बताण्डवात्प्रचण्डरीत्या ननु ताण्डवाह्वयः ॥९॥ कैशोरके पयसि प्रायश एष योषा-मध्ये विशेषत हहातिजराऽऽतुराणाम्। मणां वलापचयतो नितरां प्रजाये-सेवामयोऽतिभयदायितया प्रसिद्धः१० ताण्डवस्य स्वरूपम्- भारभ्य वामभुजतः प्रथमं तु प्रायः संजायते तदनु चापरवाहमध्ये । संचाल्य तौ सदनु पादयुगं सतोऽङ्गा-न्येवं प्रचालयति बाण्डवरोग एषा११ तेनामयी न किमपीह हि मुष्टिमध्ये द्रव्यं निधातुमपि पारयति प्रयत्नैः। नोवासमर्पयितुमात्ममुखेकदापिभक्ष्यानमीषदपिताण्डवपीडिता:१२ नृत्यनिवप्रचलति प्रसभविशेषाद्वीभत्सनेकविधचेष्टितमास्यसंस्थम्। संदर्शयतिवस सततं च तिष्ठे-बिद्वादशामनुभवन्न भवेत् सकम्पः । इति माधवनिदानपरिशिष्टे ताण्डवरोगनिदान समासम् ।