पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम् । २६९ न ब्रह्म चेत्थमलमर्थनमानतोऽति-भीतं ससंभ्रममभीप्सितमध्यनूनम् । संपादयिष्यति सदेति विमूढबुद्धः संसारमध्यपतितस्य च ते तु नूनम् ॥९॥ काचित्कदाचनच तेसफलाऽर्थनास्या-चेत्प्रार्थितेषुविषयेष्वखिलेषुतेषु। जानीहि तत्तुकलितं मनु काकताली-यं ब्रह्मनैव किलतन्त्रनिमित्तमीषदू१० मब्रह्मष्यति तवस्तुतिभिःकदाचिन द्वेष्टिवाऽविरतनिन्दनतोऽपिजातु। अस्यास्तिवादिमनुजोऽतिप्रियोऽथ नास्ति. वादी जनो नहि भवेत् कचनाप्रियोऽपि ॥११॥ जायेत वाऽऽदरमतिर्नहि पण्डितेऽस्य मूर्ख जने नहि कदाचिदनादरोऽपि । नास्योद्भवेदपि भयं धनिनः सकाशानोत्पीडनप्रकृतिरीषदतीवनिःस्वे १२ म्लेच्छे चपाककुलजे श्रुतिपारगे वा विप्रेऽपि मद्यपजने गणिकाप्रसक्ते। किंचाशुचावपि शुचौ पृथुकेऽथ बृद्धे किंवाऽधिवेश्यमाधिसाध्वि समस्तलोके ॥ १३ ॥ सर्वत्र संस्थितवदत्र हि विश्वरूपं ब्रह्मव भाति बहुशस्तु सनातनं नै । ४ एवंविधस्य ननु तस्य जगत्समस्त-मेतद्विधानमिह मत्प्रमदाय बोध्यम्। सत्वेन चोन्माति यस्तु तत्त्वो-न्मादस्ततस्तस्य गदोऽयमुक्तः । प्रायः स दुर्बुद्धिमतां च नीचा-स्मनां कदाचिन्महतामपि स्यात् ॥१६॥ तत्वोन्मादनिदानम्- अतिप्रगाढाचनुचेतसोऽसौ धर्मादिमध्येषु स्थापहाच । मरुत्प्रकोपादनिकां तु तत्वो-ग्मादः प्रजायेत गदो विचित्रः ॥१६॥ तत्वोन्मादस्य लक्षणम्- प्रमूढताऽतिस्थिरता तथाऽस्मि-स्पन्दता स्याच्च कनीनिकायाम् । उन्मीलितं चक्षुरतो निरन्तर चिन्ताऽथो बहुवाग्मिताऽद्धा ॥१७॥ दम्भोगभावा बपि चातिहासो विक्षेप उन्माद उदाररोदनम् । एवंविधानि स्युरिमानि तस्वो-मादे तु चिकान्यखिलानि नूनम् ॥१८॥ इति माधवनिदानपरिशिष्टे तस्वोन्मादनिदानं समाप्तम । मथ ताण्डवरोगनिदानम् । तत्रादौ तस्योपोडातः- सुगन्धिपुष्पै रसवस्फलो गैः समन्विते सिद्धमहर्षिसेविते । निनादरम्यद्विजवृन्दनादिते हिमाचले श्वापदसंकुलेऽमले ॥१॥