पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम् । २१३ तस्य संप्राप्तिः- जीवाणवस्त्वस्य गदस्य नून-मजान्त्रयामुष्कजकोशमध्ये । अध्यन्त्रभित्त्यस्यन्यधिफुप्फुस वै-प्रायो यकृत्प्लीहगता वसन्ति ॥२॥ प्लीहा यकृच्चौधत एव नून-मनारत ते क्षुभिते विशेषात् । स्यातां च ते सौनिकतन्तुयुक्त-ज्वरामयेऽस्मिन्ननु कालसंज्ञे ॥३॥ तस्य रूपम्- गदेऽस्मिज्वरा पूर्वमेवाविसी-प्रवत्तेत यावत्त्रिसप्ताहमा । कचिद्रोगिमध्येऽधिकं वाततो वै-सदाऽऽरोहससाऽवरोहैः स्थितः स्यात् ४ विमुच्य कालं किल के चिदेव-मावर्तते रोगिजनेषु भूयः । पूर्वोदितैर्लक्ष्मभिरन्वितः सन्-प्रायेण कालज्वर आमयोऽयम् ॥५॥ एवं द्विवारागमनेन नां-रक्ताल्पता प्रत्यहमाचरेच्च । स्वेदस्य बाहुल्यमथाङ्गमध्ये-प्रायेण हस्ताघ्रिणि च प्रपीडनम् ॥६॥ ज्वरस्तु मन्दत्वमुपागतस्तदा-भवेतिस्थरो रोगितनौ सुनिश्चितम् । विपाण्डुताऽपि ग्रहणी व कामला-प्रजायते चोर्ध्वगरक्तपित्तम् ॥७॥ तथा कचित्स्यादपि रोमकूपिक-कराशिवक्त्रेऽपि च शोथसंभवः । ध्रुवं हि साफलदं चिकित्सितं-विनाऽमयोऽयं बहुकष्टसाध्यः ॥८॥ कालज्वरोपद्रवाः- अरोचकच्छदियुतं मनुष्य-क्षीणेन्द्रिय क्षीणबलं तथैव क्षीणामिर्ष फुफ्फुसदाहयुक्त-समन्वितं यक्ष्मजलक्ष्मजावैः ॥९॥ प्रवाहिकापीडितमप्यतीसा-राक्रान्तमेवंविधमेव वैद्यः । कालज्वरेणादितमन्तकस्या-ध्वर्ग विदित्वा न च तं चिकित्सताम् १० इति माधवनिदानपरिशिष्टे कालज्वरनिदानं समाप्तम् । मथाहिकज्वरनिदानम् । नासापुटाभ्यन्तरगाल्परक-वर्णी भवेद् यत्र गदे तु शोधाः । तथा ज्वरोगात्ररुजासमेत:-स आहिक श्लेष्मकृतो ज्वरः स्याद॥१॥ इति माधवनिदानपरिशिष्ट आहिकज्वरनिदान समाप्तम् । मथ श्लैपदिकज्वरनिदानम् । शाखासु मुष्कद्वितयेऽपि राग-शोथं रुजां चाधिकमेव सन्छन् ।