पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० माधवनिदाने- स्यान् यत्र रोगिपुरुषे स मृतो भवेदे- काहाच कश्चिदथवा त्रिदिनादवश्यम् ॥९॥ एवं क्लिश्यस्त्रिचतुरदिनान्येव सप्ताहमद्धा कश्चिद्वाऽसून्नियतिवशतः प्रायशः संजहाति । कश्चित् पूर्वाजितस्कृतितः सचिकित्साप्रसङ्गा- ज्जीवेदाक्षेपकपदयुते-न ज्वरेणादितोऽपि ॥१॥ इति माधवनिदानपरिशिष्ट आक्षेपकज्वरनिदान समाप्तम् । भथ दण्डकज्वरनिदानम् । तत्रादौ दण्डकज्वरस्य परिचयः- विशिष्टमशकोडवो जगति दण्डकाख्यो ज्वर:- सदाऽस्थिनिचयं नर-स्य परिपीडयनिर्भरम् । स्थिति मुनिमितान्यहा-नि विदधाति नित्यं तनौ ततो निगदितो ज्वरो मुनिभिरेष सलाहकः ॥१॥ एनं गैङ्यू-फीवरं त्वालभाषा-विज्ञा वैधा दण्डकाख्यं ज्वरं च । अस्थ्नां नून भञ्जनं भूमिमध्ये संभाषन्ते नामधेयरमीभिः ॥ ३ ॥ दण्डकज्वरपूर्वरूपम्- यदा मानवस्याङ्गमध्येऽङ्गमर्द:-क्लमश्वारुचिर्दश्यते देवयोगात्। अथोत्क्लेशसादौ तदा दण्डकाख्य-ज्वरस्याग्ररूपं जनैवेदितव्यम् ॥३॥ दण्डकज्वररूपम्- अस्थना सन्धिषु घोरा-दण्डाहननजसमा पीडा । क्षिप्रोदयलयशाली-समस्ततनुगोऽपि वीसर्पः ॥४॥ संचारि सन्धिशूलं-शोथयुतं लक्ष्यते यत्र । ज्वरमध्येऽपि च कासः कण्ठे पीडा प्रतिश्यायः ॥६॥ पुनरावर्तनशीलो-मुञ्चत्यष्टाहतो ज्वरो यत्र । सन्धिरुजाश्चिरकालं-सन्ति वदन्ति च दण्डकज्वरं तम् ॥६॥ प्रायो जनपदजन्मा-कफमारुतकोपजातनिजवष्मा । वालानामथ जरतां-जातो दारुण उदीरितो गैः ॥७॥ इति माधवनिदानपरिशिष्टे दण्डकज्वरनिदानं समाप्तम् ।