पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४८ माधवनिदाने- इत्यं विमुक्तिसमयावधिरान्त्रिकस्य- सामान्यतो निगदितो भिषजा तु योऽत्र । स स्यात् कुपथ्यपरिशीलनतत्परस्य द्वैगुण्यभागध च तस्त्रिगुणोऽपि नूनम् ॥ २४ ॥ उपद्रवसमाधिक्यं सतताहितसेविनः । जायते तेन नियतं कुपथ्यं यत्नतस्त्यजेत् ॥ २५ ॥ मन्थरकज्वरस्यासाक्ष्यलक्षणम्- वदा कुपथ्याचरणे रतस्य ज्वरादितस्यान्त्रगतो हि यक्ष्मा । भवेत्तदा तेन च फुप्फुसद्वयं-प्रवं समाकान्तमपि प्रदृश्यते ॥ २६ ॥ तथा प्रजातरितरुपवगैर्युतोऽयमान्त्रक्षयनाममाग् भवन् । असाध्यतां प्राप्य तदा तु जीवनं लभेत रोगी पहुयत्नतः कचिदू ॥२७॥ बदाऽतिसारोऽधिकतीवतापो-विषाक्तता रक्तविनिर्गमय । शोथान्विताऽयोदरगा कला स्यात्-तदाऽप्यसाध्यो गदितोगदोऽयम्२८ अन्यानि रूपाणि च यानि पूर्व-प्रोक्तानि वैरपि तानि नूनम् । प्रावल्यभीयुर्यदि दैवतः कचित्-सदाऽप्यसाध्यत्वमितो गदो भवेत्॥२९॥ यदा प्रत्येत रुजस्त्वसाध्यता-चिकित्सकैर्मन्धरकज्वरादिते। विना चिकित्साऽऽगमसिद्धपाद-चतुष्टयं स्यान तदा तु साध्यता ॥३०॥ इति मन्थरकन्वरनिदानम् ।