पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४६ माधवनिदाने- अथ मन्थरकज्वरनिदानम् । इत आरभ्यते सम्प्रत्याधुनिकैश्चिकित्सकैः । अनुभूतं रोगन्दं सनिदानं ज्वरादिकम् ॥ सत्रादौ मन्थरकज्वरनिदानम् - बध्यक्लान्ततनवस्तथाऽनशनकर्षिताः। दुर्गन्धपूर्णभूमौ वा नित्यमेव निवासिनः ॥१॥ यद्यप्येषां मलोन्मिश्र-भक्ष्यपानादिसेवनात् । भवेतुषु सर्वेषु घोरो मन्थरको ज्वरः ॥ २॥ तथाऽपि बहुशो लोके ग्रीष्मप्रावृटशरत्स्वसौ। भीमलक्षणसंयुक्तो लक्ष्यते वैद्यसत्तमः ॥३॥ आन्त्रिकेत्यभिधान चा-परमस्यैव कथ्यते । सामान्य कारणं प्रोक्तं विशिष्टं तु निगयते ॥४॥ कोटाणवो 'वैसिलस-टाहफोसिस' नामकाः । दण्डाकाराः कृतावासा रके मुत्राशये मले। स्वेदे पित्ताशये प्लीहि पिडकास्वान्त्रिकवणे। जनयन्ति नृणां देहे ज्वरं प्रोक्तं विशेषतः ॥६॥ मन्धरकज्वरस्य सम्प्राप्ति:- मलमूत्रस्वेदजास-दोषसंसर्गदूषितः । भक्ष्यपेयादिभिर्द्रग्ग-नानासंक्रमकारणैः॥७॥ कीटाणवः संकमर्ण प्रकुर्वन्ति विशेषतः । कृत्वा संक्रमणं मृणा-मादावन्न प्रयान्ति ते॥८॥ सत्पवादन्त्रभित्तिस्थान ग्रन्थीम् छोथसमन्वितान् । कृत्वा सयो रसं रक्त-दोषान् सारोपयन्स्यपि ॥९॥ सतः क्षुद्रान्त्रात्पमागा-कान कुर्वन्ति सक्षतान् । पवादान्त्रक्षतानां च दिसंजायते क्रमात् ॥१०॥ सपा क्षुद्रान्त्रभागस्य क्षतं तत्पारगं भवेत् । सतशोथत्वमाप्नोति चोदरस्था कसा ध्रुवम् ॥ ११ ॥ U.