पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- २४३ माधवनिदाने- तन्द्री-तन्द्रिकः, प्रलापी-प्रलापका, रक्तष्ठीवयितानकडीवो, संभु. भनेत्रः भुननेत्रा, अभिन्यासका अभिन्यासः, कर्णकण्ठग्रहो कर्ममहः (कणिकः), कण्ठग्रहः-( कण्ठकुछजक )श्चेत्यत्र बोध्यम् । अथ तेषां प्रत्येक लक्षणानि । १ तत्र शीताङ्गस्य लक्षणम्- हिमशिशिरशरीरः सन्निपातज्वरी यः सनकसनहिकामोहकम्पप्रलापैः। क्लमबहुकफवातै हवम्यङ्गपीडा-स्वरविकृतिभिरातः शीतगात्रःस उक्त:४९ २ तन्द्रिकस्य लक्षणम् तन्द्राऽतीव ततस्तृषाऽतिसरणं श्वासोऽधिकः कासहक संतप्ताऽतितनुर्गले श्वयथुना सार्द्धञ्च कण्डूः कफः । सुक्ष्यामा रसना कमः श्रवणयोर्मान्धञ्च दाहस्तथा यत्र स्यात् स हि तन्द्रिको निगदितो दोषत्रयोत्थो ज्वरः ॥१०॥ ३ प्रलापकस्य लक्षणम्- यत्र ज्वरे निखिलदोषनितान्तरोष-जाते प्रलापबहुलाः सहसोस्थिताश्च । कम्पव्यथापतनदाहविसंज्ञताः स्युर्नाम्ना प्रलापक इति प्रथितः पृथिव्याम् ४ रक्तष्ठीविनो लक्षणम्- निष्ठीयो रुधिरस्य रस कृष्ण सनौ मण्डलं- लौहित्यं नयने तृषाऽरुचिवमियासातिसारश्रमाः। आध्मानं च विसंज्ञता च पतनं हिकाऽङ्गपीडा भृशं- रक्तष्ठीविनि संनिपातजनिते लिङ्ग ज्वरे जायते ॥ १२ ॥ ५ भुग्ननेत्रस्य लक्षणम्- भृशं नयनवक्रता श्वसनकासतन्द्रा भृशम्- प्रलापमदवेपथुश्रवणहानिमोहास्तथा। पुरो निखिलदोषजे भवति यत्र लि ज्वर पुरातनचिकित्सकैः स हह भुग्ननेत्रो मतः ॥ १३ ॥ ६ अभिन्यासस्य लक्षणम्- दोषास्तीवतरा भवन्ति बलिनः सर्वेऽपि यत्र ज्वरे मोहोऽतीव विचेष्टता विकलता श्वासो भृशं मूकता। दाहविष्णमाननश्च दहनो मन्दो बलस्य क्षय:- सोऽभिन्यास इति प्रकीर्तित इह प्राभिषग्भिः पुरा ॥४॥ ७ जिलकस्य लक्षणम्- त्रिदोषजमिते ज्वरे भवति यत्र जिहा मृर्श- घृता कठिनकण्टकैस्तदनु निर्भर भूकता।