पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० माधवनिदाने- एकपक्षाभिवातश्च तत्राप्येते विशेषतः ॥ २५ ॥ एष संमोहको नाम्ना सन्निपातः सुदारुणः ॥ २६ ॥ रोगास्त एवोक्ताः-व्यथावेपथुनिद्रानाशविष्टम्भादयो वातजाः। दाहष्णोष्णतास्वेदादयः पित्तजाः । गौरवानिमान्योत्कासनासि- कामुखप्रसेकादयः कफजाः। तत्रापि प्रलापादयः पक्षाघातान्ता विशे- पाजवन्ति । ९ मध्यवाताधिकपित्तहीनकफपाकलक्षणम्- मध्यप्रवृद्धहीनैस्तु वातपित्तकफैश्च यः । तेन रोगास्त एवोक्ता यादोषबलाश्रयाः ॥२७॥ मोहप्रलापमूर्छाः स्युर्मन्यास्तम्भः शिरोग्रहः । कासः श्वासो भ्रमस्तन्द्रा संज्ञानाशो हृदि व्यथा ॥२८॥ खेभ्यो रक्तं विसृजति सरक्तस्तब्धनेत्रता। तत्राप्येते विशेषाः स्युमत्युरा त्रिवासरात् । भिषाग्भिः सन्निपातोऽयं कथितः पाकलाभिधः ॥२९॥ १० हीनवाताधिकपित्तमध्यकफयाम्यलक्षणम्- हीनप्रवृद्धमध्यैस्तु वातपित्तकफैश्च यः । तेन रोगास्त एवोक्ता यथादोषवलाश्रयाः ॥३०॥ हृदयं दह्यते चास्य यकृतप्लीहान्नफुस्फुसाः। पच्यन्तेऽत्यर्थमूवधिः पूयशोणितनिर्गमः ॥३१॥ शीर्णदन्तश्च मृत्युश्च तत्राप्येतद्विशेषतः। भिषाग्भिः सन्निपातोऽयं याम्यो नाना प्रकीर्तितः ॥३३॥ १११ अधिकवातहीनपित्तमध्यकफक्रकचलक्षणम्- प्रवृद्धहीनमध्गैस्तु वातपित्तकफैश्च यः । तेन रोगस्ति एवोक्ता यथादोषवलाश्रयाः ॥३३॥ प्रलापायाससंमोहाः कम्पमूछारतिभ्रमाः। मन्यास्तम्भेन मृत्युः स्यात्तत्राप्येतद्विशेषतः॥३४॥ भिषग्भिः सन्निपातोऽयं क्रकचः संप्रकीर्तितः ॥३५॥ १२ मध्यबातहीनपित्तमध्यकफकर्कटकलक्षणम्- मध्यहीनाप्रवृबैस्तु पातपित्तक यः । तेन रोगास्त एवोका यथादोषवलाश्रयाः ॥३६॥