पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माधवनिदाने- मध्यवातो हीनपित्तः प्रवृद्धकफा ५। हीनवातो मध्यपिसः प्रवृद्धका ६ । इति षट् । अथानुक्रमेण त्रयोदशसंनिपातनामानि- विस्फारकवाशुकारी कम्पनो बभ्रसंशकः । शीघ्रकारी तथा भरलुः सप्तमः कूटपाकलः ॥३॥ संमोहक पाकलश्च याम्यः क्रकच इत्यपि। ततः कर्कटकः प्रोक्तस्ततो मैदारिकाभिधः ॥ ४॥ तन्त्रान्तरे 'विस्फारक' इत्यत्र 'विस्फोरक' इति पाठ । 'बभ्रा स्थाने 'वभुरिति पाठः । 'भल्लु' रित्यत्र 'कक्ष्गु रिति पाठः। “याम्य' इत्यत्र 'संग्राम' इति पाठः । 'कर्कटक' इत्यत्र 'कर्कोटक' इति पाठः। १तत्र वातोल्षणविस्फारकलक्षणम्- श्वासः कासो भ्रमो मूर्छा प्रलापो मोहवेपथू। पार्श्वस्य वेदना जम्भा कषायत्वं मुखस्य च ॥ ५ ॥ वातोलवणस्य लिङ्गानि संनिपातस्य लक्षयेत् । एष विफारको नाम्ना संनिपातः सुदारुणः ॥६॥ २ पित्तोल्वणाशुकारिलक्षणम् - अतिसारो भ्रमो मूछो मुखपाकस्तथैव च । गाने च बिन्दवो रक्ता दाहोऽतीव प्रजायते ॥७॥ पित्तोल्वणस्य लिङ्गानि सन्निपातस्य लक्षयेत्। मिषग्भिः संनिपातोऽयमाशुकारी प्रकोतितः ॥ ८॥ ३ कफोल्वणकम्पनलक्षणम्- जडता गद्दा वाणी रात्रौ निद्रा भवत्यपि। प्रस्तब्धे नयने चैव मुखमाधुर्यमेव च ॥९॥ कफोल्वणस्य लिङ्गानि सनिपातस्य लक्षयेत् । मुनिभिः संनिपातोऽयमुक्तः कम्पनसंज्ञकः ॥१०॥ ४ वातपित्तोल्वणबभ्रलक्षणम्- वातपित्ताधिको यस्तु संनिपातः प्रकुष्यति । तस्य ज्वरो मदस्तृष्णा मुखशोषः प्रमीलकः ॥११॥ आध्मानारतितन्द्रा कासवासनमश्रमाः। मुनिमिबंधनामाऽयं सन्निपात सदाडतः ॥१३॥