पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीगौरकृष्णः शरणं ममास्तु । माधवनिदाने- नव्यरोगनिदानम् परिशिष्टम् । लोकव्याधिसदाधिकृन्तनविधौ सिद्ध हरि माधर्व- नत्वा माधवशर्मणा निगदिते ग्रन्थे निदानस्य वै। प्रयते परिशिष्टरूपत इहालिटः सुपथैः स्फुट- नूवानूनतरान् सदैव भिषजां दृग्गोचरानामयान् ॥१॥ श्रीवाजमोहनिरयं ब्रजराजभक्तो- दामोदराधिरसिकोऽपि च मिश्रवंशयः । सत्पङ्गिपावनमहीसुरगौतमोत्थः- सन् ब्रह्मशकर उमाधवकाशिकास्थः ॥२॥ मिश्रौलियाऽऽवसथवासिजनो मुदाऽऽदौ तत्रानवाम्ज्वरगदान् विलिखत्यनुक्तान् । श्रीभेष्टिवर्यजयकृष्णपदादिदास- प्रोत्साहितस्त्वितरतन्त्रत आकलय्य अथ सामान्यसनिपातज्वरस्य त्रयोदश भेदाः । एकोस्वणालयस्तेषु द्युल्वणाश्च तथेति षट् । युल्वणश्च भवेदेको विज्ञेयः स तु सप्तमः ॥१॥ प्रवृद्धमध्यहीनैस्तु वातपित्तकफैला षट् । सन्निपातज्वरस्यैवं स्युर्विशेषाखयोदश ॥२॥ प्रवृद्धवातो मध्यपित्तो हीनकफः१। मध्यवातः प्रवृद्ध पितो हीनकफः ।। हीनवातः प्रवृद्धपित्तो मध्यकफ:३। प्रवृद्धवातो हीनपित्तो मध्यका ४। २७ मा०