पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्वरनिदानम् । १५ ष्ठीवनम् =उगिरणम् , शिरसो लोठनं = मूर्ध्नश्चालनमितस्ततः, स्वेदमूत्रपु- रीषाणाम् श्रदर्शनम् दर्शनश्चेत् चिरादल्पशः, कोठानाम् = अव्यक्तमुखानां पिडिकानां, श्यावरक्तानां मण्डलानाञ्च "दोदरा" इतिलोके प्रसिद्धानां दर्शनम् । वरटीदष्टमंकाशः क्षणिकोत्पादविनाशशाली कोठ इति । मूकत्वं = भाषणासामर्थ्य, दोषाणां चिराद् = अविलम्वेन, पाकः सामताऽऽरब्धत्वात् । पाकश्चेति चकाराद अन्यान्यपि लक्षणानि बोध्यानि । दोषाणां हीनमध्याधिक- भावेन । सन्निपाताः पड़ धुल्वग्णत्वेन त्रय एकोल्बरणत्वेन त्रयः, समत्वेन चैकः। एवं संकलनया त्रयोदशभेदाः सन्निपातस्य जायन्ते । ननु परस्परं विरुद्धगुणाना- वातादिदोषाणां सम्भूयककार्यसम्पादकत्वमसम्भवदुक्तिकं जलतेजसोरिव सहा- वस्थानासम्भवात्तत्कथं सान्निपातिकरोगाणां सम्भव इति संशये “देवाद्दोपस्व. भावाद वा दोपाणां सान्निपानिके। विरुद्धश्च गुणैः कश्चिन्नोपघातः परस्परम्" । इति गयदासोक्तसमाधानं सन्तोषावहम् । दृढबलेन समाधानान्तरमुक्त-"विरु. द्वैरपि नन्वेतैर्गुणैर्हन्ति परस्परम् । दोषाः सहजसात्म्यत्वाद् घोरं विषमहीनिव”। इति । एतच्चान्ये दूपयन्ति परमन्ततो गत्वा दृढबलसमाधानमपि विदुपांमन्तापजनक- मेवेति । विस्तरस्त्वन्यत्र द्रष्टव्यः ॥१८-२३॥ भालुकितन्त्रोक्तानि द्युल्वर्णकोल्वणादीनां सन्निपातानां लक्षणानि -- वातपित्ताधिको यस्य सन्निपातः प्रकुप्यति । तस्य ज्वरोऽङ्गमर्दस्तृटतालुशोषप्रमीलकाः ॥ १ ॥ आधमानतन्द्राऽरुचयः श्वासकासनमश्रमाः । पित्तश्लेष्माधिको यस्य सन्निपातः प्रकुप्यति ॥ २ ॥ अन्तर्दाहो बहिः शीतं तस्य तन्द्रा च वाधने । तुद्यते दक्षिणं पार्श्वमुरःशीर्पगलग्रहाः ॥३॥ निष्ठीवेत् कफपित्तं च तृष्णा कण्डूश्च जायते । विभेदश्वासहिक्काश्च बाधन्ते सप्रमीलकाः ॥ ४ ॥ विभुफल्गू च तौ नाम्ना संनिपाताबुदाहृतौ । श्लेष्मानिलाधिको यस्य सन्निपातः प्रकुप्यति ॥ ५ ॥ तस्य शीतज्वरो निद्रा क्षुत्तृष्णा पार्श्वनिग्रहः । शिरोगौरवमालस्यमन्यास्तम्भप्रमीलकाः॥ ६ ॥ उदरं दह्यते चास्य कटिव स्तिश्च दूयते । सन्निपातः स विशेयो मकरीति सुदारुणः ॥७॥