पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० सुधोपेते माधवनिदाने- एवमुन्मत्तादिकं वाऽपि शात्वा नरः कर्म-चिकित्सा, न कुर्यात् ॥२५॥ अथ दृषीविषप्रकरण तत्र दूषोविषत्वनिर्देश:- जीर्ण विषघ्नौषधिभिहत वा दावाग्निवातातपशोषित वा। स्वभावतो वा गुणविप्रहीन विष हिदूषीविषतामुपैति ॥२६॥ दूषीविषमाह-जीर्णमित्यादि ॥ २६ ॥ दृषीविषकार्याणि- वीर्याल्पभावान निपातयेत्तत् कफान्वितं वर्षगणानुबन्धि । तेनादितो भित्रपुरीषवर्णो गन्ध्यरत्ययुतः पिपासी। मुझे भ्रमं गद्दवाग्वमि च विचेष्टमानोरतिमाप्नुयाद्वा ॥२॥ दूषीविषाभिपन्नस्य लक्षणमाह-तेनादित इत्यादि ॥ २७ ॥ स्थानविशेषेण दूषीविषस्य विशिष्टलक्षणम्- आमाशयस्थे कफवातरोगी पकाशयस्थेऽनिलपित्तरोगी। भवेत् समुद्ध्वस्तशिरोरुहाङ्गो विलूनपक्षस्तु यथा विहङ्गः ॥२८॥ रसादिधातुगतदूषीविषलक्षणानि- स्थितं रसादिष्वथवा यथोक्तान् करोति धातुप्रभवान् विकारान् । कोपं च शीतानिलदुर्दिनेषु यात्याशु पूर्व शृणु तस्य रूपम् ॥ २९ ॥ दूषीविषस्य पूर्वरूपम्- निद्रा गुरुत्वं च विज़म्भणं च विश्लेषहर्षावथवाऽङ्गमर्दम् । ततः करोत्यत्रमदाविपाकावरोचकं मण्डलकोठजन्म ॥३०॥ मांसक्षयं पादकरप्रशोथं मूछो तथा छर्दिमयातिसारम् । दृषीविषं चासतृषाज्वरांश्च कुर्यात्प्रवृद्धिं जरस्य चापि ॥३१॥ उन्मादमन्यज्जनयेत्तथाऽन्यदानाहमन्यरक्षपये शुक्रम् । गाद्धमन्यजनयेच कुष्ठ तास्ताविकारांश्च बहुप्रकारान् ॥ ३३॥ दूषित देशकालानदिवास्वप्नैरभीक्ष्णशा। यस्मात् संदूषयेदातूनस्तस्माषीविष स्मृतम् ॥ ३३ ॥ दूषीविषस्य निरुक्तिमाह-दूषितमित्यादि ।। ३ ।। दूषीविषस्य साध्यस्वादि- साध्यमात्मवतः सयो याप्यं संवत्सरोस्थितम् । दूषीविषमसाध्यं स्यात् क्षीणस्याहितसेविनः ॥३४॥ -