पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषनिदानम् ६९। २२९ असाध्याः सर्पदष्टाः- अश्वत्थदेवायतनश्मशानवल्मीकसन्ध्यासु चतुष्पथेषु । याम्ये च दष्टाः परिवर्जनीया ऋक्षे सिरामर्मसु ये च दृष्टाः १९ देशविशेषण दष्टस्यासाध्यत्वमाह-अश्वत्थ इस्यादि। याम्ये भरण्याम् , ऋक्षे-नक्षत्रे, 'नक्षत्रमृक्षं में तारा इत्यमरः । चकाराद्-भार्दाऽश्लेषाऽऽदी- नामपि संग्रहः॥१९॥ सर्पविषस्य कालवशादाशुमारकता- दकिराणां विषमाशुपाति सर्वाणि चोष्णे द्विगुणीभवन्ति ॥२०॥ सर्पदंशेऽसाध्यलक्षणम् - अजीर्णपित्तातपपीडितेषु वालेषु वृद्धेषु बुभुक्षितेषु । क्षीणक्षते मेहिनि कुष्ठयुक्त रूक्षेऽवले गर्भवतीषु चापि ॥२१॥ अपरमप्यवस्थाविशेषेणासाध्यत्वमाह-अजीणेत्यादि। अजीर्णादिपीडि- तेषु दोषत्रयप्रकोपात्। बालवृद्धयोः सुकुमारत्वेन सर्पवेगासहत्वात् । एवमेवा- न्यत्रापि विषस्याशुधातित्वमूहनीयम् ॥ २१ ॥ सर्वथावाः सर्पदष्टरोगिणः- शस्त्रक्षते यस्य न रक्तमेति राज्यो लताभिश्व न संभवन्ति । शीताभिरभिश्च न रोमहर्षो विषाभिभूतं परिवर्जयेत्तम् ॥ २२ ॥ जिचं मुखं यस्य च केशशातो नासाऽवसादश्च सकण्ठभङ्गः । कृष्णः सरक्तः श्वयथुश्च देशे हन्योः स्थिरत्वं च विवर्जनीयः ॥२३॥ वत्तिर्धना यस्य निरेति वक्त्राद्रक्त स्त्रवेदूर्ध्वमधश्च यस्य । दंष्ट्रानिपाता: तुरश्च यस्य तं चापि यः परिवर्जयेच्च ॥२४॥ सर्वथाऽसाध्यत्वमाह-शस्त्रक्षत इत्यादि । यस्य-पुरुषस्य, शस्त्रक्षते -न निःसरति । लताभिः-कशाऽऽद्यापतिः। राज्या-लेखाश्च चिह्नानि ( वाम इति लोके,) न सम्भवन्ति । शीताभिरभिः शीतलजलैः, रोमहर्ष: रोमाञ्चः, न भवेत्तं विषामिभूतं परिवर्जयेत्स्न चिकित्सेत् । अस्य मुखं जिलं- कुटिलं भवेत् केशशातः केशपतनम् । बत्राद् यस्थ घना कठिना, बत्तिः, निरेति-जायते । यस्य, अवं-मुखादिभिः, अधः-भपानादिभिर्वा रक्त स्रवेत् । सोऽपि विवर्जनीयः ।। २२-२४ ॥ उन्मत्तमत्यर्थमुपद्धतं वा हीमस्वरं बाऽप्यथवा विवर्णम् । सारिष्टमस्यर्थमवेगिनं च ज्ञात्वा न कर्म न सत्र कुर्यात् ॥२६॥ रक्तं नैति