पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 सुधोपेते माधवनिदाने- सुप्रसवं मनस्तत्र हर्षणे हेतुरुच्यते । आहाररसयोनिस्वादेवं स्तन्यमपि खियाः॥३॥ तदेवापत्यसंस्पर्शादर्शनास्स्मरणादपि। ग्रहणास शरीरस्य शुक्रवत् संप्रवर्तते स्नेहो निरन्तरस्तत्र प्रस्रवे हेतुरुच्यते ॥४॥ (स्तन्यं दुग्धं, तदुष्टिः)- स्तन्यदुष्टेहेतुस्तस्याश्च बालरोगहेतुत्वम्- गुरुभिर्विविौरनैर्दुष्टैर्दोषैः प्रदूषितम् । क्षीरं मातुः कुमारस्य नानारोगाय कल्पते ॥६॥ वातदुष्ट पित्तदुष्टं दुग्धं- कषायं सलिलप्लावि स्तन्यं मारुतदूषितम् । कटवाललवणं पीतराजिमत पित्तसंज्ञितम् ॥६॥ कफदुष्टं दन्दत्रिदोषदुष्ट चदुग्ध- कफदुष्टं घनं तोये निमजति सपिच्छिलम् । द्विलिङ्ग द्वन्द्वजं विद्यात् सबंलिङ्ग त्रिदोषजम् ॥७॥ स्तन्यदुष्टिलक्षणमाह-कषायमित्यादि । सलिलप्लावि-सलिले जले प्लवते लाघवादुन्मजति यत्तत्सलिलप्लावि । मारुतदूषितं वातदुष्टम्। पीतराजिमत्-पीतरेखाऽन्वितम् , कफदुष्टं तोयेजले निमज्जति गुरुत्वा- दित्यर्थः। शेषः सुगमः ॥ ६-७॥ स्तन्यस्वरूप-रसप्रसादो मधुरः पक्काहारनिमित्तजः । कृत्स्नदेहात स्तनौ प्राप्तः स्तन्यमित्यभिधीयते ॥८॥ शुद्धदुग्धरूपम्-अदुष्टं चाम्बुनिक्षिसमेकीभवति पाण्डुरम् । मधुरं चाविवर्ण च प्रसन्न तत् प्रशस्यते ॥९॥ इति श्रीमाधवकरविरचिते-माधवनिदाने सतषष्टितम स्तन्य-दुष्टिनिदानं समासम् ॥६॥ शुद्धस्तन्यस्वरूपमाह-अदुष्ष्टमित्यादि। सम्बुनिक्षिस-जले पसितं, सत्सर्वात्मना जलेन सहकीभवति । अविवर्ण वातादिदुष्टवर्णरहितम्, प्रसन्न निर्मलम्, प्रकृतिस्थमिति यावत् ॥९॥ इति मुषायां स्तन्यदुष्टिनिदानम् ॥