पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूतिका-स्तन-स्तन्यदुष्टिनिदानानि ६६-६० २२१ अथ पत्रषष्टितम सूतिकारोगनिदानम् ॥१५॥ सूतिकारोग-अङ्गमर्दो ज्वरः कम्पः पिपासा गुरुगात्रता। रूपम्-शोथः शूलातिसारौष सूतिकारोगलक्षणम् ॥१॥ सूतिकारोगस्य लक्षणमाह-अत्यादि। अङ्गमर्दप्रभृतयो हि सतिकात्वेन व्यपदिश्यन्ते ॥१॥ सूतिकारोग-मिथ्योपचारात् संक्लेशाद्विषमाजीर्णभोजनात् । हेतुः-सूतिकायाश्च ये रांगा जायन्ते दारुणांस्तु ते ॥२॥ सूतिकानां निदानमाह-मिथ्योपचारादित्यादि । संक्लेशादिति- संक्लिश्यते-उक्लिश्यते दोषोऽनेनेति संक्लेशो-दोषोत्पादकमन्नम् ॥ २ ॥ सूतिकारोगाः-ज्वरातीसारशोथाच शूलानाहबलक्षयाः । तन्द्राधिप्रसेकाधाः कफवातामयोद्भवाः ॥३॥ कष्टसाध्या:-कृच्छ्रसाध्या हिते रोगाः क्षीणमांसवलाग्नितः । ते सर्वे सूतिकानाना रोगास्ते धाप्युपद्रवाः ॥४॥ इति श्रीमाधवकरविरचिते माधवनिदाने पञ्चषष्टितम सूतिकारोग-निदानं समाप्तम् ॥६६॥ अथ षट्षष्टितमं स्तनरोगनिदानम् ॥६६॥ सम्माप्ति:-सक्षीरौ वाऽप्यदुग्धौ वा प्राप्य दोषः स्तनौ स्त्रियाः प्रदूष्य मांसरुधिरं स्तनरोगाय कल्पते ॥१॥ विद्रधि-पञ्चानामपि तेषां हि रक्तज विधि विना। सादृश्यलक्षणानि समानानि बाह्यविद्रधिलक्षणैः ॥३॥ हात श्रीमाधवकरविरचिते-माधवनिदाने षट्पष्टितम स्तनरोग-निदानं समाप्तम् ॥ ६६ ॥ भथ सप्तषष्टितमं स्तन्यदुष्टिनिदानम् ॥१७॥ शुक्रबस्तन्यस्यापि शरीरेऽवस्थानबहिःप्रवर्तनादिप्रदर्शनम्- विशस्तेष्वपि गात्रेषु यथा शुक्र न हषयते । सर्वदेहाश्रितस्वाच्च शुक्रलक्षणमुच्यते ॥१॥ तदेव चेष्टयुक्तेर्धनात् स्मरणादपि। शब्दसंश्रवणात् स्पर्शाद संहाच प्रवते ॥३॥ १६ मा०