पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० सुधोपेते माधवनिदाने- असाध्यमूढगर्भगर्भिण्योलिङ्गमाह-अपविद्धशिराः शिरोधारयितुमक्षमा, निस्पनपा-निर्लज्जा नीलोद्तक्षिरा-नीला-नीलवर्णा उद्गगता सिरा कुक्षौ यस्याः सा तथोक्ता । सा-गर्भिणी च गर्भ हन्ति । सः-गर्भः, च तां गर्भिणीहन्ति ॥७॥ अन्तर्मतशिशुरूपम्- गर्भास्पन्दनमावीनां प्रणाशः श्यावपाण्डुता। भवेदुच्छ्वासपूतित्वं शुनताऽन्तर्मते शिशौ ॥८॥ गर्भमृत्यु-मानसागन्तुभिर्मानुरुपतापैः प्रपीडितः । हेतवः-गर्भो व्यापद्यते कुक्षौ व्याधिभिश्च निपीडितः ॥९॥ असाध्यरूप-योनिसंवरणं सङ्गः कुक्षौ मकल एव च । हन्युः स्त्रियं मूढगर्भी यथोक्ताश्चाप्युपद्रवाः ॥१०॥ मृतगर्भलक्षणमाह-अन्तमृते शिशौ एतानि लिङ्गानि जायन्ते तथा हि- गर्भास्पन्दनं गर्भस्य अस्पन्दनं निश्चलत्वम् । आवीनां प्रसवव्यथानां, प्रणाशः । शूनता- शोफ : अङ्गानामिति शेषः॥८॥ इति सुधायां मूढगर्भनिदानम् ॥ (योनिसंवरणं नाम तन्त्रान्तरपठितो रोगविशेषः, तथाहि- वातलान्यनपानानि ग्राम्यधर्म प्रजागरम् । अत्यर्थ सेवमानाया गर्भिण्या योनिमार्गगः॥१॥ मातरिचा प्रकुपितो योनिद्वारस्य संवृतिम् । कुरुते रुद्धमार्गत्वादू योन्यन्तर्गतोऽनिलः ॥२॥ निरुणयाशयद्वार पीडययन् गर्भसंस्थितिम् । निरुद्ववदनोच्छ्वासो गर्भश्चाशु विपद्यते ॥३॥ बद्धा संरुद्धहृदयां नाशयत्याशु गभिणीम् । योनिसंवरणं विद्याद व्याधिमेनं सुदारुणम् । अन्तकप्रतिमं घोरं नारभेत चिकित्सितम् ॥४॥ इति । ककल्लरोग-वायुः प्रकुपितः कुर्यात् संरुध्य रुधिरं नुतम् । लक्षणम्-सूताया हच्छिरोवस्तिशूलं मकलसंज्ञकम् ॥५॥) इति माधवकरविरचिते माधवनिदाने चतुःषष्टितम मूढगर्भनिदान समासम् ॥ ६४ ॥