पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

असादरनिदानम् ६१॥ ११३ त्रिरात्राजीवितं हन्ति शहको नामतः परम् । यहाज्जीवति भैषज्यं प्रत्याख्याय समाचरेत् ॥१६॥ इति श्रीमाधवकरविरचिते-माधवनिदाने षष्टितम शिरोरोग-निदानं समाप्तम् ॥ ६० ॥ शङ्खकमाह-रक्तत्यादि । दुष्टा रक्तादयो दोषाः शतदेशे विमूच्छिता:- प्रवृद्धाः, दारुणं भयङ्करं, शोथं कुर्वन्ति । सः शङ्खकः, विषवद्वेगी शिरस्तथा गलमाशु निरुध्य त्रिरात्राज्जीवितं हन्ति। यहाद-व्यहं व्याप्य, जोवति प्रत्याख्याय भेषजं समाचरेत् ॥१५-१६ ॥ इति सुधायां शिरोरोगनिदानम् । खीरोगाणां निदानप्रकरणम्- अौकषष्टितममसृग्दरनिदानम् ॥ ६१ ॥ प्रदररोगस्य कारणं संख्या च विरुद्धमद्याध्यशनादजीर्णाद् गर्भप्रपातादतिमैथुनाच्च । यानाध्वशोकादतिकर्षणाच भाराभिघाताच्छयनाहिवा च । तं श्लेष्मपित्तानिलसन्निपातैश्चतुष्प्रकार प्रदरं वदन्ति ॥१॥ सामान्यरूपम्-असग्दरं भवेत् सर्व साङ्गमर्द सदनम् ॥२॥ तस्यातिप्रबृत्तिरूपं- तस्यातिवृत्तौ दौर्बल्यं भ्रमो मूर्छा मदस्तृषा । दाहः प्रलापः पाण्डुत्वं तन्द्रा रोगाश्च वातजाः॥३॥ स्त्रीपुन्नियतारोगानभिधाय स्त्रीनियतरोगानभिधातुमसृग्दरमाह-वि. रुदूधेत्यादि । विरुद्धमयाध्यशनात्=विरुद्ध - क्षीरमत्स्यादि, अध्यशन भुक्तोपरिभोजनम् । अतिकर्षणात् = लङ्घनाघतिप्रसङ्गेन क्षीणंधातुस्वात् साङ्ग- मर्द सवेदनं च सर्वमसग्दरं भवेत् । असृग् दीर्यते च्यवते यस्मिन्नित्य. सग्दरनामव्याधिः । तस्य - रक्तस्य, अतिप्रवृत्तौ दौर्बल्यादय उपद्रवास्तथा वातजाश्च रोगा जायन्त इति तं प्रदरं श्लेष्मपित्तानिलसन्निपातैश्चतुष्प्रकारं वद. न्ति ॥ १-३॥ कफप्रदरम् आम सपिच्छाप्रतिम सपाण्ड पुलाकतोयप्रतिमं कफास्तु । पित्तप्रदरं च-सपीतनीलासितरक्तमुष्णं पित्तातियुक्तं भुशवेगि पित्तात्॥४