पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिरोरोगनिदानम् ६०। १११ कफजशिरोऽभिताप:- शिरो भवेद्यस्य कफोपदिग्धं गुरु प्रतिष्ठन्धमथो हिमं च । शूनाक्षिकूटं वदनं च यस्य शिरोऽभितापः स कफप्रकोपात् ॥४॥ त्रिदोषजशिरोऽभिताप:- शिरोऽभितापे त्रितयप्रवृत्ते सर्वाणि लिङ्गानि समुद्भवन्ति । रक्तात्मकः पित्तसमानलिङ्गः स्पर्शासहत्वं शिरसो भवेश्च ॥५॥ क्षयजशिरोऽभितापः- क्षयप्रवृत्तः शिरसोऽभितापः कष्टो भवेदुग्ररुजोऽतिमात्रम् । अमृग्वसाश्लेष्मसमीरणानां शिरोगतानामिह संक्षयेण । संस्वेदनच्छदनभूमनस्टौरसग्विमोक्षश्च विवृद्धिमेति ॥६॥ क्रिमिजशिरोऽभितापः-- निस्तुधते यस्य शिरोऽतिमात्र संभक्ष्यमाणं स्फुरतीव चान्तः । घ्राणाञ्च गच्छेत्सलिलं सपूयं शिरोऽभितापः क्रिमिभिःसघोरः ॥ सूर्यापवतः सूर्योदयं या प्रति मन्दमन्द-मक्षिभुवं रुक समुपैति गाढा। विवर्द्धते चांशुमता सहैव सूर्यापवृत्तौ विनिवर्तते च । सर्वात्मकं कष्टतमं विकारं सूर्यापवत्तं तमुदाहरन्ति ॥९॥ सूर्यापवर्त्तलक्षणमाह-सूर्योदयमित्यादि , सूर्योदय=भास्करोदयकालं लक्षीकृत्य, या रुक्=पीडा मन्दमन्दमक्षिभ्रुवं समुपैति, अंशुमता-सूर्येण, सह गाढा यथा स्यात्तथा वर्धते, सूर्यापवृत्तौ-सूर्यापगमे, ( सूर्यास्तसमये ), विनि- वर्तते शान्तिमापद्यते, सर्वात्मकं त्रिदोषज, कष्टतम-कृच्छतम, विकारं- रोगं सूर्यापवर्तम् , उदाहरन्ति-कथयन्ति । व्याधिमाहात्म्यात्कालविशेषनिय-. मोऽत्र बोध्यः ॥ ९॥ (निमिप्रोक्ता सूर्यापवर्त्तसंप्राप्तिः- सूर्यसोमात्मकौ नित्यं स्वहेतू पित्तमारुतौ। कुर्वाते वेदनां तीवां दिनात् पूर्वाह्न एव तु ॥१॥ आदित्यतेजसा युक्त निवृत्तेऽपि च भास्करे। स्रोतसां विवृतत्वाच्च ततः श्लेष्माऽधिगच्छति ॥२॥ उद्रतो मातरिया च स्वमार्ग प्रतिपयते । तस्मान्मध्यदिनादूर्व वेदनाउन प्रशाम्यति ॥ इति ।