पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'११० सुधोपेते माधवनिदाने- समस्तनेत्ररो-(नव सन्ध्याश्रयास्तेषु वर्त्मजास्त्वेकविंशतिः । गाणां संख्या-शुक्लभागे दशैकश्च चत्वारः कृष्णभागजाः॥१०॥ सर्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु । बायजी दौ समाख्यातौ रोगो परमदारुणौ) ॥१०६ ॥ इति श्रीमाधवकरविरचिते माधवनिदाने एकोनषष्टितम नेत्ररोग-निदानं समाप्तम् ॥ १९ ॥ अथ षष्टितमं शिरोरोग-निदानम् ॥ १० ॥ शिरोरोग-शिरोरोगास्तु जायन्ते वातपित्तकफस्त्रिभिः । संख्या-सन्निपातेन रक्तन क्षयेण क्रिमिभिस्तथा ॥ सूर्यावर्तानन्तवातार्धावभेदकशटकैः ॥१॥ शिरोरोगानाह-शिरोरोगास्त्वित्यादि । एकादश शिरोरोगाः सम्भव- न्ति-बातेन पित्तेन कफेन त्रयः, सन्निपातेन चैकः, रक्तेन चैकः, क्षयेण चैकः, तथा कृमिभिरेकः, सूर्यावर्त्तानन्तवातार्धावभेदकशङखकैस्त्रयः, एवमेकादश । शिरोरोगशब्देन शिरोगतशूलरूपा वेदना बोध्यते तेन 'सूर्यावर्तानन्तवाता- विभेदकशङ्खकैरित्युक्तिः सङ्गच्छते, अन्यथा तेषामेव शिरोरोगत्वात्तैः शिरो- रोगा जायन्त' इति कथनमसङ्गतं स्यात् ॥१॥ वातजशिरोऽभितापः- यस्यानिमित्त शिरसो रुजश्च भवन्ति तीवा निशि चातिमात्रम् । बन्धोपतापैः प्रशमश्च यत्र शिरोऽभितापः स समीरणेन ॥३॥ वातिकशिरोरोगलक्षणमाह-यस्यानिमित्तमित्यादि । यस्य-रोगिणः, अनिमित्तम् - अतकिंतहेतुकं, वायोविषमक्रियत्वात् , शिरस-मस्तकस्य, तीवा रुजा-पीडाः, भवन्ति । निशि-रात्रौ च, अतिमात्र शीतेन वायोराधि- क्याद् बन्धोपतापैः प्रशमः प्रशान्तिः, यत्रासौ समीरणेन वायुना, शिरो- ऽभितापा-शिरःपीडा, कथित इति शेषः॥२॥ पैत्तिकशिरोऽभिताप:- यस्योष्णमङ्गारचितं यथैव भवेच्छिरो धूप्यति चाक्षिनासम् । शीतेन रात्रौ च भवेच्छमश्च शिरोऽभितापः स तु पिसकोपात् ॥३॥ पित्तजमाइ-यस्योष्णमित्यादि । अङ्गारचित-ज्वलदङ्गाराच्छन्नमिव । अक्षिनासम्-अक्षि च नासा चेत्यक्षिनासम् (प्राण्यङ्गस्वादेकवद्भाव:) धूप्य- ति-सन्तापं याति ॥ ३ ॥ ..