पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नेत्ररोगनिदानम् ५९। १०९ प्रचिन्नवर्म-अरुज बाह्यतः शूनं वर्त्म यस्य नरस्य हि । प्रक्लिन्नवमं तद्विद्यात् क्लिन्नमत्यर्थमन्ततः ॥ ११ ॥ अक्लिन्नवम-यस्य धौतान्यधौतानि संबध्यन्ते पुनः पुनः । वमान्यपरिपक्कानि विद्यादक्लिन्नवर्त्म तत् ॥ १२ ॥ वातहतवम-विमुक्तसन्धि निश्चेष्टं वर्त्म यस्य न मील्यते । एतद्वातहतं वर्त्म जानीयादक्षिचिन्तकः ॥ १३ ॥ बार्बुद:-वान्तरस्थं विषमं ग्रन्थिभूतमवेदनम् । आचक्षीताबुदमिति सरक्तमविलम्बितम् ॥ ९४ ॥ निमेषः-निमेषिणीः सिरा वायुः प्रविष्टः सन्धिसंश्रयाः । प्रचालयति वानि निमेषं नाम तद्विदुः ॥ ९५ ॥ शोणितार्शः-यः स्थितो वर्त्ममध्ये तु लोहितो मृदुरकुरः । तद्रतजं शोणिताशश्छिन्नं छिन्नं प्रवर्धते ॥ १६ ॥ लगणः-अपाकी कठिनः स्थूलो प्रन्धिर्वम॑भवोऽरुजः । लगणो नाम स व्याधिलिङ्गतः परिकीर्तितः ॥ ९ ॥ विसवम-त्रयो दोषा बहिः शोथं कुथुश्छिद्राणि वर्त्मनोः । प्रस्त्रवन्त्यन्तरुदकं विसवद्विसवमं तत् ॥ ९८॥ वर्मकुचन-वाताधा बमसकोचं जनयन्ति मला यदा। तदा द्रष्टुं न शक्नोति कुञ्जनं नाम तद्विदुः ॥९॥ पक्षमकोपः-प्रचालितानि वातेन पक्ष्माण्यक्षि विशन्ति हि। घृष्यन्त्यक्षि मुहुस्तानि संरम्भं जनयन्ति च ॥१०॥ असिते सितभागे च मूलकोषात् पतन्त्यपि । पक्ष्मकोपः स विज्ञेयो व्याधिः परमदारुणः ॥ १०१ ॥ पक्ष्मशातः-वम॑षक्ष्माशयगतं पित्त रोमाणि शातयेत् । कण्डू दाहं च कुरुते पक्ष्मशातं तमादिशेत् ॥ १० ॥ (वाग्भटोक्तं कृच्छोन्मीलनम्- रोगान् कुर्युश्चलस्तत्र प्राप्य वमश्रियाः सिराः। सुसोस्थितस्य कुरुते वर्त्मस्तम्भं सवेदनम् ॥१३॥ पांशुपूर्णाभनेत्रत्वं कृच्छ्रोन्मीलनमक्षु च। विमर्दनात् स्याच शमः कृच्छ्रोन्मीलं वदन्ति तम् ) ॥१०॥